Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
3
<
श्रीनवतत्त्वसुमङ्गलाटीकायां
प्रकीर्णा सोदाहरणाः सिद्धमेदाः ॥
>
053<sz90
॥१६७||
साध्वी प्रसिद्धवृत्तान्तेति न वितन्यते ॥ ५७ ॥ पुंसिद्धा गोयमाइ गांगेयाइ नपुंसया सिद्धा । पत्तेयसयंबुद्धा, भणिया करकंडुकविलाइ ॥५८॥
टीका;-' पुंसिद्धा' इति, पुरुषलिङ्गसिद्धा गौतमगणधरादयोऽन्येऽपि ये पुंल्लिङ्गे वर्तमानाः सिद्धिमुपगताः। गांगेयादयश्च नपुंसकलिङ्गसिद्धाः, 'गांगेय' इति नाम्ना भीष्मपितामह उपलक्ष्यते परं पाण्डवचरित्रादिषु भीष्मपितामहस्याऽच्युतदेवलोके गतिर्वर्णितेति न तस्यात्र परिग्रहः, यश्च भगवत्यां भंगजालादिप्रश्नयिता गाङ्गेयस्तस्य नपुंसकसिद्धत्त्वं न तत्रोद्दिष्ट, तस्मात् कस्य गाङ्गेयस्यात्र परिग्रहस्तत् कोविदकुलालङ्कारैश्चिन्त्यम् । प्रत्येकबुद्धाः स्वयम्बुद्धाश्च क्रमेण करकंडुकपिलादयो भणिता व्यावर्णिता इति । तत्र प्रत्येकबुद्धस्य करकण्डोवृत्तान्तश्चायम्-चम्पानगर्यां दधिवाहनो राजा चेटकराज्ञः पुत्र्याः स्वपत्न्याश्च पद्मावत्या दोहदपूरणार्थ तां हस्तिस्कन्धे निवेश्य वने जगाम, तत्र पर्जन्यधारोच्छलितभूमिगन्धात् पलायमानं मत्तेभं दृष्ट्वा काश्चिद्वटवृक्षशाखामाश्रित्याऽनन्तरं स्वपुर्यां समागतः, राज्ञी च वटवृक्षशाखामलग्ना सती तृषार्ते हस्तिनि कस्मिंश्चित् सरसि निवेशिते हस्तिस्कन्धादुत्तीर्णा सरस्तीरे यावत्सागारिकमनशनमङ्गीकृत्य स्थिता तावद्वनवासिना पितृव्येण तापसेन नगरी प्रापिता निर्विण्णा च सती विनागर्भकथामन्यां निखिला स्ववार्तामार्याय निवेद्य दीक्षां जग्राह । क्रमेण समागते प्रसवसमये रहसि स्वगुव्य निखिलं व्यतिकरं कथितवती सुश्राद्धप्रमुखसाहाय्येन पद्मावती साध्वी पुत्रं सुषुवे । पुत्रश्च पितृसंज्ञितां मुद्रिकां परिधाय रत्नकम्बलावृतं श्मशाने मुमोच, अनन्तरं कश्च तं गृहातीति द्रष्टुं यावद्रहसि स्थिता तावत् स्मशानरक्षकस्तं पुत्रं गृहीचा स्वभार्यायै समर्पयामास । ततः सा पद्मावती चाण्डालं तमनुसृत्य तस्य गृहं ज्ञाचा
<
-5
-5>
-
॥१६७॥
<

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376