Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
N
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१६२॥
सम्यक्त्वावाप्तौ को लाभः॥
>
E-
रतत्र्यात् , नान्यथा । अत्र च साहजिकमज्ञानं ज्ञानावरणविपाकोदयसान्निध्यमात्रादुपजायमानं न सम्यक्त्वप्रतिबन्धकं । गुरुनियोगजनितं तु मध्यस्थस्य विनेयस्य नानामतदर्शिनो मिथ्याचप्रदेशोदयमहिम्ना विप्रतिपत्त्युपनीतप्रवचनार्थसंशयरूपं सम्यक्त्वप्रतिबन्धाभिमुखमपि तमेव सच्चमित्याद्यालम्बनरूपोत्तेजकप्रभावान्न सम्यक्त्वं प्रतिबद्धमलमित्यज्ञानाद्गुरुनियोगाद्वाऽसद्भतार्थश्रद्धानेऽपि भावतो जिनाज्ञाप्रामाण्याभ्युपगन्तुर्न शुभात्मपरिणामरूपसम्यक्त्वोपघात इति भावनीयं । एतेन यदुच्यते केनचित् परपक्षनिश्रितस्य सर्वथा सम्यक्त्वं न भवत्येवेति तदवांस्तं द्रष्टव्यं, अनभिनिविष्टस्य मिथ्यादृष्टिनिश्रयाऽपि तदुपनीतासद्भतार्थश्रद्धानस्यास्वारसिकत्त्वेन स्वारसिकजिनवचनश्रद्धानाविरोधित्त्वात् । अभिनिविष्टस्य तु स्वपक्षपतितस्य परपक्षपतितस्य वा मिथ्यादृष्टिवानपायादित्यलं प्रपञ्चेन ।। ५२ ॥
अथ सम्यक्त्वगुणावाप्तौ को लाभः ? तत् प्रदिदर्शयिषयाहअंतोमुत्तमित्तं-पि फासियं हुज्ज जहि सम्मत्तं । तोर्स अवड्वपुग्गल-परियहो चेव संसारो ॥५३॥
टीका-अन्तमुहूर्त्तमात्रमपि । इत्यादि, आस्तां तावन्मुहूर्त्तप्रहरदिवसपक्षमासवर्षादिकालीनं सम्यक्त्वं भवक्षयाय परं अन्तर्मुहूर्त्तमात्रकालमपि ' येषां' भव्यानां यथाप्रवृत्ताऽपूर्वकरणाऽनिवृत्तिकरणावाप्ताऽन्तरकरणावस्थानां 'सम्यक्त्वम् ' औपशमिकादिभेदभिन्नं तत्त्वार्थश्रद्धानलक्षणं ' स्पर्शितं असंख्येयप्रदेशात्मकजीवस्य प्रत्यात्मप्रदेशं मिथ्यात्वमोहनीयाऽनन्तानुबन्धिचतुष्टयोपशमाद्यवाप्ततत्त्वश्रद्धानं स्यात् तेषामुत्कृष्टतोऽप्यपाधपुद्गलपरावर्त्तप्रमाणावशेष एव संसारः, न ततोऽधिकः ।
32095-卐र
-
>
हिनीयाऽनन्त
॥१६॥

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376