Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
z3
>
<卐-5
प्रददते न ततोर्वाक् । उक्तश्च;-'सम्यक्त्वज्ञानचारित्र-संवरतपःसमाधिबलयुक्तः । मोहादीनि निहत्याऽशुभानि चच्चारि कर्माणि ॥१॥
केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तं । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥२॥' अयथार्थप्रतिपादनकारणानि रागद्वेषाज्ञानानि, ज्ञानावरणीयादिनिखिलघातिकर्मक्षयान्न जिनेश्वराणां विपरीतार्थप्रतिपादनसम्भवः, तथाप्रतिपादनहेतूनां क्षयात् , नाऽकारणा च कार्यनिष्पत्तिरिति न्यायात् । तथा चोक्तं-'वीतरागा हि सर्वज्ञा मिथ्या न ब्रुवते क्वचित् । यस्मात्तस्माद्वचस्तेषां तथ्य भूतार्थदर्शनम् ॥१॥' अत एकमपि सार्वज्ञं वचनममन्यमानः सर्वज्ञे भगवत्यप्रत्ययमुत्पादयति, तथाभूतश्च सन् मिथ्याचपङ्कपङ्किलमात्मानं विधत्ते, एकस्मिन्नपि प्रवचनार्थेऽभिनिवेशेनाऽसद्भुतश्रद्धाने तदितरसकलसद्भूतार्थश्रद्धानस्याऽप्यश्रद्धानकल्पवात् । तस्मात् सर्वाणि जिनेश्वरभाषितानीति गदितं । न चाऽनेन व्याख्यानेन जैनेन्द्रवचनानुरागिणोऽपि प्रवचनपरिज्ञानविकलस्य गुरुनियोगायत्तस्य वा यस्य कस्यचित् सम्यक्त्वाभावो प्रज्ञापनीयः, यतो ज्ञानावरणीयोदयसान्निध्यमात्रादुपजायमानाज्ञानायत्तं प्रवचनपरिज्ञानवैकल्यं गुरुनियोगजनितः प्रवचनार्थसंशयो वान सम्यस्वप्रतिबन्धायालम् । तथा चोक्तं श्रीमच्छिवशर्मसूरिशेखरैः कर्मप्रकृत्यां;-' सम्मद्दिठी णियमा उवइठं पवयणं तु सद्दहइ । सद्दहइ असब्भावं अजाणमाणो गुरुणिओगा ॥१॥' अस्याश्चेयं गमनिका-सम्यग्दृष्टिीवो गुरुभिरुपदिष्टं प्रवचनं नियमाद्यथावत् श्रद्धत्त एव । तुरेवकारार्थो भिन्नक्रमश्च । यः पुनः सम्यग्दृष्टिरप्यसद्भावमसद्भूतं प्रवचनं श्रद्दधाति सोऽवश्यमजानन् स्वयं परिज्ञानविकलः सन् यद्वा गुरोस्तथाविधसम्यकपरिज्ञानविकलस्य मिथ्यादृष्टेर्वा जमालिप्रख्यस्य नियोगादाज्ञापा
z393
9
>
-S>
<
>

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376