Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
iz卐
)>y
-g
दर्शनावाप्तौ पारम्यर्येण हेतुत्वे तत्त्वविज्ञानस्य न किञ्चिदविरुद्धम् । वस्तुतस्तु यथाभूततत्त्वार्थश्रद्धानस्याऽपायरूपत्वादपायस्य च मतिज्ञानस्य भेदत्त्वान्मतिज्ञानावरणीयक्षयोपशमक्षयरूपमेव सम्यक्त्वम् , दर्शनमोहोपशमादयस्तु मतिज्ञानावरणीयक्षयोपशमक्षयप्रभवापायरूपसम्यक्त्वस्य प्रकाशकाः, अनेन सम्यक्त्वस्यान्तरङ्गं कारणं मतिज्ञानावरणीयक्षयोपशमादिर्न तु दर्शनमोहोपशमादयः, दर्शनमोहोदयस्तु श्रद्धानलक्षणसम्यक्त्वजनकमतिज्ञानावरणीयादिक्षयोपशमभावमाश्रित्य प्रतिबन्धकतामेति ततः कारणस्य कारणे कार्योपचारात् दर्शनमोहोदय एव सम्यक्त्वगुणस्य प्रतिबन्धकतयोररीक्रियते, अनयाऽपेक्षया च सम्यक्त्वस्य त्रैविध्यमन्यथा मतिज्ञानावरणीयस्य कर्मण उपशमाऽभावादौपशमिकसम्यक्त्वभेदेनाऽपि न भवितव्यमिति । अनेनाऽभिप्रायेणैव मेधाविमृधन्यैर्भाष्यकारभगवद्भिरुमास्वातिवाचकैस्तत्त्वार्थभाष्ये भाष्यकाराऽभिप्रायं यथार्थमनुसरद्भिः श्रीसिद्धसेनमूरिप्रकाण्डैस्तट्टीकायां चैवं प्रत्यपादि, तद्यथा-भाष्यम्-सम्यग्दर्शनं केन भवति? | निसर्गादधिगमाद्वा भवतीत्युक्तम् (१-३) । तत्र निसर्गः पूर्वोक्तः । अधिगमस्तु सम्यग्व्यायामः । उभयमपि तदावरणीयस्य कर्मणः क्षयेणोपशमेन क्षयोपशमाभ्यामिति । (सूत्र ७. अ. १)
टीकैकदेशः–'तदावरणीय' इत्यादि तस्य रूचिलक्षणस्य ज्ञानस्य यदावरणीयकं तत् तदावरणीयं, आवरणीयशब्दाच्च निश्चीयते ज्ञानम् , तदन्यत्र हि ज्ञानदर्शनावरणीयवर्जिते कर्मणि नावरणीयव्यवहारः प्राय इति । किं पुनस्तदावरणीयम् ? मतिज्ञानाद्यावरणीयम् , अनन्तानुवन्ध्यादि च निमित्ततया आवरणीयम् , यतस्तस्मिन्नुपशान्तेऽनन्तानुबन्ध्यादिकर्मणि तत् मतिज्ञानावरणीयं क्षयोपशमावस्थां भजते, एतावता तदावरणीयं भण्यते Ixxxxx| ननु च ज्ञानावरणीयस्योपशमो नास्ति,
959g卐zyog)-धर
-
>52

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376