Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 353
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां॥१६॥ सम्यक्त्वस्य तवार्थश्रद्धा तत्त्वम् ॥ 1zyyyyyyy> दयवतां तत्त्वज्ञानाऽभावेऽपि शमसंवेगादिलक्षणैः सम्यक्त्वादिलाभाः सिद्धान्ते श्रूयन्तेऽतः कथं प्रतिपाद्यते जीवादिपदार्थान् जानाति तस्य सम्यक्त्वं स्यादित्यत आह-'भावेण सद्दहंतो अयाणमाणेऽवि सम्मत्तं' इति, ज्ञानावरणीयोदयात्तत्त्वज्ञानाऽभावेपि तत्त्वभूतान् पदार्थानजानन्नपि भावेनाऽऽत्माभिप्रायेण न तु वाक्सौष्ठवमात्रेण तत्वानि श्रद्दधान आवारककर्मोदयात् प्रज्ञाया वैकल्येऽपि 'जं जिणेहिं पन्नत्तं तमेव निस्संकं सच्चं' इति प्रतिपद्यमानः सम्यक्त्वमर्जयति । अनेनैतद्विज्ञायते यत् श्रुतमधीयानस्याऽध्ययनादिकारणात् क्वचिदधिगमसम्यग्दर्शनलाभः, क्वचिच्च सम्यक्त्वलाभात्तत्त्वावबोधः । न च प्रथमपक्षे सम्यक्त्वलाभात् प्रागज्ञानभावमाश्रित्य नाऽज्ञानात्सम्यक्त्वमिति वाच्यम् , यतस्सत्यपि सम्यक्त्वप्राग्भाविन्यज्ञाने तथाविधतत्ववेदिगुर्वादिप्रबोधाद्यथावस्थितवस्तुविज्ञानसामार्थ्यात्तदुपग्रहसम्यक्त्वावाप्तौ न काचिद्विप्रतिपत्तिः यतस्तत्र नाऽज्ञानजन्य सम्यग्दर्शनमिति विज्ञेयं, सम्यग्दर्शनं तु गुर्वादिप्रबोधावाप्तयथार्थवस्तुपरिज्ञानप्रभवदर्शनमोहनीयोपशमक्षयनिमित्तैरेव प्रजायत इति । द्वितीयपक्षोऽपि श्रेयान् यतो बुद्धिमान्द्याद्यथावस्थितपरिज्ञानविरहितोऽपि तत्त्वार्थश्रद्धानात् सम्यक्त्वलामं समश्नुते, अत एवोमास्वातिवाचकवरेण्यैरभिहितं 'तत्वाऽर्थश्रद्धानं सम्यग्दर्शनम्' इति । ननु निखिलपदार्थानां यथार्थतत्त्वावबोधो ज्ञानावरणीयक्षयक्षयोपशमसमुत्थः, यथावस्थितवस्तुश्रद्धानलक्षणं सम्यक्त्वं च दर्शनमोहोपशमक्षयक्षयोपशमप्रभवं, तत्कथं ज्ञानावारकक्षयादिजन्यं तत्वविज्ञानं श्रद्धानलक्षणसम्यग्दर्शनाऽवाप्तौ कारणतां बिभर्ति ? तजातीयकारणस्यैव तत्तद्गुणावाप्ती सामर्थ्य न तु वैजात्यस्येति चेत् ? सत्य, ज्ञानावारकक्षयक्षयोपशमोद्भवं तत्त्वविज्ञानं यद्यपि वैजात्यकारणत्वेन न साक्षात् सम्यक्त्वोपलब्धौ हेतुस्तथापि तत्त्वविज्ञानजन्यदर्शनमोहानन्तानुबन्धिक्षयोपशमादिभिः पारम्पर्येण सम्यग > 37339cow! पा॥१६॥ >

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376