Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 349
________________ मोक्षतत्वे श्रीनवतत्त्वसुमङ्गलाटीकायां तत्प्रतिपत्तिक्रमः॥ ॥१५८॥ z卐卐>卐ggy-942 संहरति ततोऽष्टमे दण्डम् ॥ २॥' केवली समुद्धातश्च कुर्वाणः प्रथमाऽन्तिमसमययोरौदारिकयोगी स्यात् , द्विषट्सप्तमकेषु तु औदारिकमिश्रकाययोगी भवेत, तृतीयचतुर्थपञ्चमेषु च केवलं कार्मणकाययोगी, तत्र च तृतीयचतुर्थपञ्चमसमयेष्वनाहारकस्स्यात् । यदाह- औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीरयोक्ता चतुर्थके पश्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यनाहारको नियमात् ॥२॥' केवलिसमुद्धाताऽनन्तरं शैलेशीकरणं सम्प्राप्तुकामः सयोगिगुणान्तिमान्तर्मुहूर्ते योगनिरोधार्थ यतते-तत्र पूर्व तावत् बादरे काययोगे स्थित्वा बादरौ वाङ्मनोयोगौ सूक्ष्मत्वं नयति, ततः सूक्ष्मे वाग्योगे क्षणं स्थित्वा बादरं काययोग सूक्ष्मत्वं प्रापयति, अनन्तरं पुनः सूक्ष्मकाययोगे क्षणं स्थितिं विधाय सूक्ष्मौ वाङ्मनोयोगी निरुणद्धि, पश्चात् स्वयमेव सञ्जातं सूक्ष्मकाययोगनिरोधमतीत्य शैलेश्यवस्थां प्राप्नोति । शैलेश्युपान्त्यसमये देहपञ्चकवन्धनपश्चकसंघातनपश्चकाङ्गोपाङ्गत्रिकसंस्थानपट्कवर्णपंचकरसपंचकसंहननषद्कस्पर्शाष्टकगन्धद्विकनीचैर्गोत्राऽनादेयदुर्भगागुरुलघूपधातपराघातनिर्माणापर्याप्तोच्छ्वासाऽयशःकीर्तिविहायोगतिद्विकशुभाशुभस्थिराऽस्थिरदेवगतिदेवानुपूर्वीप्रत्येकसुस्वरदुःस्वरैकतरवेद्यलक्षणा द्वासप्ततिः कर्मप्रकृतयः क्षयमुपयान्ति, अन्त्ये च समये एकतरवेद्यादेयपर्याप्तत्रसबादरमनुष्यायुर्मनुष्यगतिमनुष्यानुपूर्वीसौभाग्योच्चैर्गोत्रपश्चेन्द्रियजातितीर्थकरनामरूपाणां त्रयोदशानां प्रकृतीनां क्षये जाते भवोपग्राहिकर्मणामपि विच्छेदाल्लब्धसिद्धचपर्यायो विगतजातिजरामरणश्चिदूपो भगवान् प्रदेशान्तरं समयान्तरं चास्पृशन् तत्रैव समये लोकान्तवर्तिनी सिद्धशिलां समुपयाति । पञ्चास्तिकायसमुदायाऽऽत्मकलोकस्याग्रभागे ईषत्प्रागभारा नाम्नी तुहिनशकलोज्वला उत्तानच्छत्रकाकृतिर्वसुधाऽस्ति, तस्याश्चोपरि >卐yz卐卐卐c ॥१५८" >

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376