Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 348
________________ A U V M प्रवर्त्तयति, तदेव च तीर्थकरनामकर्मविपाकस्य फलं यदुक्तम् :- “ तीर्थप्रवर्त्तनफलं यत्प्रोक्तं कर्म तीर्थकरनाम । तस्योदयात्कृतार्थोऽप्यर्हस्तीर्थं प्रवर्तयति ॥ १ ॥ तत्स्वाभाव्यादेव हि, प्रकाशयति भास्करो यथा लोकं । तीर्थप्रवर्त्तनाय, 5 प्रवर्त्तते तीर्थकर एवम् ॥ २ ॥ " यैश्व तीर्थकरलब्धिर्मातीततृतीयभवे निकाचिता ते सामान्यकेवलित्वेन केवलज्ञानादि - 5 लब्धिमुपभुञ्जानाः सौवर्णसहस्रपत्र कमलादिषु निषण्णा देशनादिकं विदधते । केवलज्ञानकेवलदर्शनप्रमुखलब्धीनामुभयत्र साम्येपि आज्ञैश्वर्यादिषु महदन्तरं कोटिध्वजेभ्यकोटिध्वजभूपयोरिवेति । जघन्यत अन्तर्मुहूर्त्तमुत्कृष्टतो देशोनां पूर्वकोटिं यावत्तत्र स्थित्वा भवोपग्राहिकर्म्मणां मध्ये आयुष्यस्थितेर्वेदनीयप्रमुखकर्मस्थितेश्च वैषम्यं स्यात्तदा तत्समीकरणार्थमष्टसामयिकं केवलिसमुद्धातमुपक्रमते । केवलिसमुद्धात प्रथमसमये स्वशरीरादात्मप्रदेशान् बहिर्निष्कास्य आयामविष्कम्भाभ्यां T स्वशरीरप्रमाणमुच्चच्त्वेन च चतुर्दशरज्जुपरिमितं दंडाकारतया रचयति, द्वितीये समये पूर्वापरायतलोकप्रमाणं कपाटमात्मप्रदेशानां N विदधाति, तृतीये उत्तरदक्षिणायतलोकप्रमाणं कपाटं ( मन्थानं ) विरचयति, चतुर्थे समये अन्तरपूरणं विधत्ते, 5 A पञ्चमे समये अन्तरदेशं रिक्तीकरोति, षष्ठे उत्तरदक्षिणायतकपाटाकाराऽऽत्मप्रदेशानां संकोचः, सप्तमे क्षणे पूर्वापरायतकपाटस्य रिक्तीभवनं, अष्टमे च समये दण्डाकारगतात्मप्रदेशानामपि संकोचात् स्वस्थानावस्थानमिति । 5 एवं पूर्वोक्तप्रकारेण केवली भगवान् स्वात्मप्रदेशानां चतुर्भिस्समयैः प्रसारणप्रयोगात् विषमस्थितिकान् कर्मलेशान् समीकृत्य अभिहितरीत्या चतुर्भिस्समयैर्निवर्त्तते । यदाह वाचकमुख्यः; - ' दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये 5 मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥ १ ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं, T A A V A

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376