________________
A
U
V
M
प्रवर्त्तयति, तदेव च तीर्थकरनामकर्मविपाकस्य फलं यदुक्तम् :- “ तीर्थप्रवर्त्तनफलं यत्प्रोक्तं कर्म तीर्थकरनाम । तस्योदयात्कृतार्थोऽप्यर्हस्तीर्थं प्रवर्तयति ॥ १ ॥ तत्स्वाभाव्यादेव हि, प्रकाशयति भास्करो यथा लोकं । तीर्थप्रवर्त्तनाय, 5 प्रवर्त्तते तीर्थकर एवम् ॥ २ ॥ " यैश्व तीर्थकरलब्धिर्मातीततृतीयभवे निकाचिता ते सामान्यकेवलित्वेन केवलज्ञानादि - 5 लब्धिमुपभुञ्जानाः सौवर्णसहस्रपत्र कमलादिषु निषण्णा देशनादिकं विदधते । केवलज्ञानकेवलदर्शनप्रमुखलब्धीनामुभयत्र साम्येपि आज्ञैश्वर्यादिषु महदन्तरं कोटिध्वजेभ्यकोटिध्वजभूपयोरिवेति । जघन्यत अन्तर्मुहूर्त्तमुत्कृष्टतो देशोनां पूर्वकोटिं यावत्तत्र स्थित्वा भवोपग्राहिकर्म्मणां मध्ये आयुष्यस्थितेर्वेदनीयप्रमुखकर्मस्थितेश्च वैषम्यं स्यात्तदा तत्समीकरणार्थमष्टसामयिकं केवलिसमुद्धातमुपक्रमते । केवलिसमुद्धात प्रथमसमये स्वशरीरादात्मप्रदेशान् बहिर्निष्कास्य आयामविष्कम्भाभ्यां T स्वशरीरप्रमाणमुच्चच्त्वेन च चतुर्दशरज्जुपरिमितं दंडाकारतया रचयति, द्वितीये समये पूर्वापरायतलोकप्रमाणं कपाटमात्मप्रदेशानां N विदधाति, तृतीये उत्तरदक्षिणायतलोकप्रमाणं कपाटं ( मन्थानं ) विरचयति, चतुर्थे समये अन्तरपूरणं विधत्ते, 5 A पञ्चमे समये अन्तरदेशं रिक्तीकरोति, षष्ठे उत्तरदक्षिणायतकपाटाकाराऽऽत्मप्रदेशानां संकोचः, सप्तमे क्षणे पूर्वापरायतकपाटस्य रिक्तीभवनं, अष्टमे च समये दण्डाकारगतात्मप्रदेशानामपि संकोचात् स्वस्थानावस्थानमिति । 5 एवं पूर्वोक्तप्रकारेण केवली भगवान् स्वात्मप्रदेशानां चतुर्भिस्समयैः प्रसारणप्रयोगात् विषमस्थितिकान् कर्मलेशान् समीकृत्य अभिहितरीत्या चतुर्भिस्समयैर्निवर्त्तते । यदाह वाचकमुख्यः; - ' दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये 5 मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥ १ ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं,
T
A
A
V
A