Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 350
________________ योजनमेकं लोकः, तस्याऽधस्तनक्रोशत्रयं हित्त्वा तुरीयक्रोशस्य उपरितने षष्ठभागे त्रयस्त्रिंशदुत्तरधनुत्रिशतीसम्मिते धनुस्त्रिभागाधिके यो लोकान्तशब्दस्य सैद्धान्तिकोपचारस्तत्र मुक्तात्मा ब्रजति न परतः, परतो धर्मास्तिकायस्य गतिसहायकस्याऽभावात् । ननु क्षपितनिरवशेषकर्मराशेनिरस्तकायवाङ्मनोयोगस्य कथं लोकान्तप्राप्तिर्भवति ? योगाऽभावादक्रियत्वादात्मन इति चेदुच्यते-यथा हस्तदण्डचक्रसंयोगात् पुरुषप्रयत्नतश्चाविद्धं, कुलालचक्रं पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषूपरतेष्वपि पूर्वप्रयोगाद् भ्रमत्येव प्रयत्नजन्यसंस्कारपरिक्षयं यावत् , एवं शैलेश्यवस्थायां जनितो यः पूर्वप्रयोगस्स एव क्षीणे कर्मण्यपि लोकान्तगमनहेतुर्भवति । अथवा पुद्गलानां जीवानां च गतिमत्त्वमुक्तं, नान्येषां द्रव्याणाम् । तत्राधोगौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवाः । यथा सत्स्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेनाधस्तिर्यगूधं च स्वाभाविक्यो लोष्ठवाय्वग्नीनां गतयो दृष्टास्तथा कर्मसङ्गविनिर्मुक्तस्य ऊर्ध्वगौरवादूर्ध्वमेव सिध्यमानगतिर्भवति, संसारिणां तु कर्मसङ्गादधस्तिर्यगूर्ध्वश्चेति । अथवा यथा बीजकोशबन्धनच्छेदादेरण्डबीजादीनां गतिर्दृष्टा तथा कर्मबन्धनच्छेदात् सिध्यमानगतिरालोकान्तमविरुद्धवा । अथवा सर्वकर्मविनिर्मुक्तस्यास्य विगतयोगस्यापि तथैव गतिपरिणामो भवति येन लोकान्तं यावदेकेनैव समयेन ब्रजति । उक्तं च-'पूर्वप्रयोगादसङ्गवाद्वन्धच्छेदात्तथागतिपरिणामाच्च तद्वतिः' [ तत्त्वा० अ०१० सू-६], तथा च ' तदनन्तरमेवोर्ध्व-मालोकान्तात् स गच्छति । पूर्वप्रयोगासङ्गत्व-बन्धच्छेदो गौरवैः ॥१॥ कुलालचक्रदोलायामिषौ चाऽपि यथेष्यते । पूर्वप्रयोगात् कर्मह तथा सिद्धिगतिः स्मृता ॥२॥ मृल्लेपसङ्गनिर्मोक्षाद् यथा दृष्टाऽप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षात् तथा सिद्धिगतिः स्मृता ॥ ३ ॥ एरण्डयंत्रपेडासु बन्धच्छेदाद् यथागतिः । कर्मवन्धनविच्छेदात् in9999z903

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376