SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ izyg>5993-99 वेदोदयस्तु तेषां पुरुषवेदोदयाऽपेक्षयाऽपि मन्दः, अतः कृत्रिमाणां सर्वविरतिपूर्वकमोक्षावाप्तौ न किञ्चिदविरुद्धम् । एतच्च विशेषतो निशीथादिभ्योऽबसेयमिति । एवं सत्पदप्ररूपणा-द्रव्यप्रमाण-क्षेत्र-स्पर्शना-कालाऽन्तर-भाग-भावा-ऽल्पबहुत्त्वद्वारैस्संक्षेपतो मोक्षतत्त्वं व्याख्यायाधुनोपसंहरन्नाह ' इअ मुक्खतत्तमेअं' इति, एतन्मोक्षतत्त्वमिति, न च पूर्वोक्तद्वारैरेव मोक्षस्य व्याख्येति विज्ञेयं, अन्येऽपि मोक्षव्याख्याप्रकारास्सन्त्येक प्राग्व्यावर्णितोऽनुयोगश्च मोक्षसद्भावप्रतिपादनपरः, परं मोक्षस्य किं लक्षणं ? कथञ्च तस्याऽवाप्तिरित्येतनिखिलमपि उपरिष्टाद्विज्ञेयमतः संक्षेपतो विभाव्यते किञ्चिद्-' मोक्खो कम्माऽभावो'' कृत्स्नकर्मक्षयान्मोक्षः' इत्यादिवचनात् कर्मणां निखिलानां योऽभावस्स मोक्षः । न च प्रतिसमयं कर्मण उदयाविनाभाविवादुदयसहचारिसकामाकामनिर्जरापूर्वककर्मक्षयमाश्रित्य सर्वेष्वपि सत्वेषु मोक्षोऽस्त्येवेति वाच्यम् , यत उक्तप्रकारेण तत्तत्कर्मक्षयसद्भावेऽपि अन्येषां प्रभूततरकर्मस्कन्धानां बध्यमानत्त्वान्न मोक्षो सकलेष्वपि जीवेषु । अतो निखिलानां कर्मणां प्रध्वंसाऽभावः स मोक्षः । नन्वनेकेषु शास्त्रेषु जीवकर्मणोरनादिसंयोगः प्रतिपादितः, कथमनादिसंयोगवतोस्तयोवियोग आत्यन्तिकः? सत्यं, यथा काञ्चनोपलयोरनादिसंयोगे सत्यपि खानिबहिःकर्षण-सुवर्णकारादिप्रयुक्तज्वलितज्वलनादिभिः प्रयोगैः सुवर्णादुपलस्य वियोगो आबालजनप्रसिद्धस्तथा भव्यजीवानामपि अव्यवहारराशेर्व्यवहारराशावागतानां सुवर्णकारोपमशुद्धगुर्वादिसंयोगावाप्तसम्यग्दर्शनज्ञानचारित्रज्वलितज्वलनानां कर्मण आत्यन्तिकक्षये न काचिद्विप्रतिपत्तिरिति । एवंभूतश्च मोक्षः सम्यग्दर्शनज्ञानचारित्रसाध्यः। तत्पत्तिपत्तिक्रमस्याऽयं संक्षेपः-प्राग्व्याख्यातप्रक्रमेण क्षायोपशमिक१ सैद्धान्तिककार्मप्रन्थिकमतेनानादिमिथ्यादृष्रौपशमिकक्षायोपशमिकसम्यक्त्वान्यतरसम्यक्त्वयोः प्रथमलाभापेक्षया सत्यपि 10543209
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy