SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां॥१५६॥ मोक्षतत्वे सिद्धानामल्पब हुचम् ॥ z卐卐>卐卐-93979 मोहवीर्यान्तरायक्षयप्रभवत्त्वादेतानि ज्ञानदर्शनसम्यक्त्वचारित्रवीर्याणि क्षायिकानि भवन्तीत्यर्थः । न च शेष भवोपग्राहिकर्मक्षयोद्भूतत्वात् अनन्तसुखाऽक्षयस्थितिप्रमुखाणां गुणानामपिक्षायिकत्वं वाच्यमिति, क्षायिकत्वेऽपि तेषां क्षायिकव्यवहाराऽभावात् । जीवत्वं च पुनस्तेषां सिद्धिवधूत्सङ्गशालिनां मुक्तानां पारिणामिके अनादिपारिणामिके भावे भवतीति भावद्वारम् ॥४९॥ अथाल्पबहुचद्वारं विवरिपुर्गाथां निबध्नातिथोवा नपुंससिद्धा, थीनरसिद्धा कमेण संखगुणा। इअमुक्खतत्तमएं, नवतत्ता लेसओ भणिया॥५०॥ टीका-'थोवा' इति, नपुंसकलिङ्गसिद्धा सर्वस्तोकाः, स्त्रीलिङ्गसिद्धाः पुरुषलिङ्गसिद्धाश्च क्रमेण संख्यगुणाः, इदमत्र हृदयम्-एकसमय उत्कृष्टतो नपुंसकलिङ्गे वर्तमाना दश सिद्ध्यन्ति, स्त्रीलिङ्गे वर्तमानास्ततो द्विगुणा विंशतिरित्यर्थः, पुरुषलिङ्गोपेताश्चाऽष्टाधिकशतसंख्याका एकस्मिन् समये सिद्ध्यन्तीत्युत्तरोत्तरं संख्यातगुणवमविरुद्धम् । न च लिङ्गसद्भावे कथं मोक्षावाप्तिरिति शङ्कनीयं, वेदोदयलक्षणलिङ्गस्य अनिवृत्तिबादरान्ते व्यवच्छेदेऽपि लिङ्गाकृतेरयोगिगुणस्थानकं यावत् सद्भावात् । ननु नपुंसकानां कर्मक्षयलक्षणो मोक्षः कथमवाप्यते ? नपुंसकानां मोक्षावाप्तौ प्रतिषेधश्च सिद्धान्ते श्रूयते, सत्यम्पोडशभेदभिन्नानां निखिलानामपि नपुंसकानां न प्रतिषेधः किन्तु तेषु ये दश भेदा जातिनपुंसकानां तेषां निषेधः, न तु षड्भेदभिन्नानां कृत्रिमनपुंसकानामिति । जातिनपुंसकानां तीव्रमोहोदयसद्भावच्चात् सर्वविरतेरप्यसम्भवः, कुतो मोक्षस्य कथा ? कृत्रिमानां तु मंत्रौषधिमहर्षिदेवादिशापनिमित्तोपहतवेदानां न जातिनपुंसकानामिव नगरदाहतुल्यो वेदोदयः, केवलं केनापि पूर्वोक्तकारणेन पुरुषवेदस्योपहतत्त्वात् पुरुषवेदोदयाऽभावेनैव ते नपुंसकाः प्रोच्यन्ते, 095६卐८yz90925-ye ॥१५६॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy