________________
3
>
<S-
| भावार्थ:-इहासदध्यवसायात्मकं सज्ज्ञानमप्यज्ञानं, तच्च मिथ्याचोदयजमेव । यदभ्यधायि-'जह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए । भन्नइ तह नाणं पिहु मिच्छद्दिहिस्स अन्नाणं ॥१॥' असिद्धचमपि सिद्धत्त्वाऽभावरूपमष्टप्रकारकोंदयजमेव । असंयमोऽविरतत्त्वं, तदपि प्रत्याख्यानावरणोदयाजायते । लेश्यास्तु येषां मते कपायनिष्यन्दो लेश्या तन्मतेन कपायमोहनीयोदयजच्चादौदयिक्यः, यन्मतेन तु योगपरिणामो लेश्या तदभिप्रायेण योगत्रयजनककर्मोदयप्रभवाः, येषां त्वष्टकर्मपरिणामो लेश्यास्तन्मतेन संसारिवासिद्धच्चवदष्टप्रकारकमोदयजा इति । कपायाः क्रोधमानमायालोभरूपा मोहनीयकर्मोदयादेव भवन्ति । इह गतयो गतिनामकर्मोदयादेव नारकत्वतिर्यक्त्वमनुजच्वदेवत्वलक्षणपर्याया जायन्त इति । वेदाः स्त्रीपुंनपुंसकाख्या नोकषायमोहनीयोदयादेव जायमानाः स्पष्टमौदयिका एवेति । मिथ्यात्वमप्यतत्वश्रद्धानरूपं मिथ्यात्वमोहनीयोदयजमेवेत्यौदयिकं प्रतीतमिति ।। ननु निद्रापंचकसातादिवेदनीयहास्यरत्यरतिप्रभृतयः प्रभूततरभावा अन्येऽपि कर्मोदयजन्याः सन्ति तत् किमित्येतावन्त एवैते निर्दिष्टाः ? सत्यम् , उपलक्षणवादन्येऽपि द्रष्टव्याः, केवलं पूर्वशास्त्रेषु प्राय एतावन्त एव निर्दिष्टा दृश्यन्त इत्यत्राप्येतावन्त एवास्माभिः प्रदर्शिताः । तथा भव्यचमभव्यत्वं जीवत्वमित्येते त्रयो भेदाः पारिणामिके भावे भवन्ति । तदेवं द्विभेद औपशमिको भावः, नवभेदः क्षायिकः, अष्टादशभेदः क्षायोपशमिकः, एकविंशतिभेद औदायिकः, त्रिभेदः पारिणामिकः । सर्वेऽपि भावपञ्चकभेदाखिपंचाशदिति । एषां भावानां मध्ये सिद्धाः कस्मिन् कस्मिन् भावे वर्तन्ते तदुच्यते-'तेसिं दसणं नाणं खइए भावे परिणामिए अपुण होइ जीवत्' तेषां सिद्धानां दर्शनं ज्ञानं उपलक्षणात् सम्यक्त्वं चारित्रं वीर्यश्च क्षायिके भावे सन्ति, अयमर्थः--ज्ञानावरणीयदर्शनावरणीयदर्शनमोहचारित्र
DECz卐0卐-!
E
-52<!