________________
S
V
॥ १५५ ॥
श्रीनवतत्त्व- शुभप्रकृतीनां विपाकतोऽनुभवनं स एव तेन वा निर्वृत्त औदयिकः । परिसमन्तान्नमनं जीवानामजीवानां च जीवत्त्वादि- 55 मोक्षतवे स्वभावानुभवनं प्रति पह्णीभवनं परिणामः, स एव तेन वा निर्वृत्तः पारिणामिकः । तत्रौपशमिकस्य द्वौ भेदौ, औपशमिकसम्यक्त्वं औपशमिकचारित्रञ्च, द्वावपि दर्शनचारित्रमोहनीयकर्मोपशमसंभवाविति । क्षायिके भावे नव भेदा भवन्ति, केवलज्ञानकेवलदर्शनक्षायिकसम्यक्त्वयथाख्यातचारित्रदानादिपञ्चलब्धयः क्रमेण केवलज्ञानावरणीय केवलदर्शनावरणीय दर्शन५ मोहचारित्रमोहान्तरायपञ्चकक्षयजन्याः । तृतीये क्षायोपशमिके भावेऽष्टादशभेदा मतिश्रुताऽवधिमनःपर्यायाऽऽत्मकज्ञान- 55 A चतुष्टयमत्यज्ञानश्रुताऽज्ञानविभंगज्ञानरूपाऽज्ञानत्रिकचक्षुरचक्षुरवधिदर्शनलक्षणदर्शनत्रिकस्वरूपा दशोपयोगाः दानलाभभोगोपभोगवीर्यलक्षणाः पञ्च सलब्धयः म्यक्त्वं देशविरतिसर्वविरतिलक्षणं विरतिद्विकश्चेतिलक्षणास्तत्तत्कर्मणां क्षयोपशमप्रादुर्भूता इति । ननु दानादिलब्धयः पूर्वं क्षायिकभाववर्त्तिन्य उक्ताः, इह तु क्षायोपशमिक्य इति कथं न विरोधः ? नैतदेवम्, अभिप्रायापरिज्ञानात् । इह दानादिलब्धयो द्विविधा भवन्त्यन्तरायकर्मणः क्षयसंभविन्यः क्षयोपशमसंभविन्यश्च तत्र च याः क्षायिक्यः पूर्वमुक्तास्ताः क्षयसंभूतत्त्वेन केवलिन एव, याः पुनरिह क्षायोपशमिकान्तर्गता उच्यन्ते ताः क्षयोपशमसंभूताश्छद्मस्थानामेव । सम्यक्त्वसर्वविरती अपि क्षायोपशमिके अत्र ग्राह्ये, ते च क्षयोपशमोद्भवत्वेन प्रस्तुतभावे एव वर्त्तते । देशविरतिरप्यप्रत्याख्यानावरणक्षयोपशमजच्वेन क्षायोपशमिके वर्त्तते एवेति भावः ॥ अज्ञानं, असिद्धवं, असंयमः, कलेश्याः कृष्णनीलकापोततेजः पद्मशुक्लभेदात् पटू, कपायाः क्रोधमानमायालोभाख्याश्चत्वारः, गतिर्नरकतिर्यङ्मनुष्यसुरगतिभेदाच्चतुर्द्धा, वेदाः स्त्रीपुंनपुंसकाख्यास्त्रयः, मिथ्यात्त्वमित्येते एकविंशति भेदास्तुर्ये औदयिके भावे भवन्ति । अत्रायं
T
A
JY
सुमङ्गला
टीकायां
N
A
L
भाव
द्वारम् ॥
।। १५५ ।।