________________
z
>y
<卐
>卐
-
औदयिकः, पारिणामिकश्चेति पञ्चभावाः। विशिष्टहेतुभिः स्वतो वा जीवानां तत्तपतया भवनानि भवन्त्येभिरूपशमादिभिः पर्यायैरिति वा भावाः, भवनं भावस्तेन तेन पर्यायेणाऽऽत्मलाभ इत्यर्थः। तत्रोपशमनमुपशमः कर्मणोऽनुदयलक्षणावस्था भस्मपटलाऽवच्छन्नाग्निवत् , सः प्रयोजनमस्येत्यौपशमिकस्तेन वा निवृत्तः । औपशमिकश्चासौ भाव औपशमिकभावः, कर्मण उपशमाद् यद् दर्शनं चरणं वा श्रद्धानलक्षणं विरतिलक्षणं वा तथोद्भवति तदौपशमिकशब्देनोच्यते, एवमग्रेऽपि भाव्यम् । क्षयः कर्मणोऽत्यन्तोच्छेदः, स एव तेन वा निवृत्तः क्षायिकः । क्षयोपशमाभ्यां निर्वृत्तः क्षायोपशमिकः दरविध्यातावच्छन्नज्वलनवत् । यदुदयावलिकाप्रविष्टं तत् क्षीणं शेषमनुद्रेकक्षयावस्थम् , इमामुभयीमवस्थामाश्रित्य क्षायोपशमिकः प्रजायते । ननु चाध्यमेवौपशमिकान्न भिद्यते यतस्तत्राप्युदितं क्षीणमनुदितं चोपशान्तमिति । अत्रोच्यते-क्षयोपशमे ह्युदयोऽप्यस्ति, प्रदेशतया कर्मणो वेदनानुज्ञानात् , नत्त्वसावुदयो विधातायेति, अनुभाववेदनाऽभावात् , उपशमे तु प्रदेशकर्माऽपि नानुभवति मनागपि नोदयोऽयं विशेष इति यावत् । आगमश्चायम्-से गृणं भंते ! मेरइयस्स वा तिरिक्खजोणियस्स वा मणुसस्स वाजे कडे कम्मे णस्थि णं तस्स अवेइत्ता मोरको हंता गोयमा?से केणठेणं भंते ! एवं वुच्चइ ? एवं खलु गोयमा! मए दुविहे कम्मे पन्नत्ते, तंजहापदेसकम्मे अणुभावकम्मे य, तत्स्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्स्थ णं जं तं अनुभावकम्मं तं अच्थेगइयं वेएइ अच्थेगइयं नो वेएइ, णायमेयं अरहता विण्णायमेयं अरहता-अयं जीवे इमं कम्मं अज्झोवगमियाए वेयणाए वेदिस्सति, अयं जीवे इमं कम्मं उवक्कमियाए वेयणाए वेदिस्सति अहाकम्मं अहाकरणं जहा जहा तं भगवया दिटुं तहा तहा विपरिणमिस्सतीति, से तेणं अटेणं गोयमा! एवं वुच्चति" । अतोऽस्ति विशेष औपशमिकक्षायोपशमिकयोरिति । उदयः शुभा
>卐
-
<
>