________________
श्रीनवतत्त्वसुमङ्गलाटीकायां
<卐>卐
मोक्षतत्त्वे भागभावद्वारौ।
॥१५४॥
gFE-
रमिति, तद्गुणनाशाऽनन्तरं पुनस्तद्गुणावाप्तौ जघन्योत्कृष्टभेदाभ्यां यावान् कालस्तदन्तरमित्यर्थः । सिद्धभगवतां सिद्धत्त्वं न प्रतिपाति, 'सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरावित्ति' इत्यत्र अणतादिपाठदर्शनात् , यदा च सिद्धत्त्वस्य प्राप्तिस्तदा सादिः, प्राप्त्यनन्तरं प्रच्युत्यभाव इति साधनन्ता स्थितिः सिद्धानां, सा च प्राक् प्रतिपन्नैव, अतः सिद्धानामन्तरं नास्तीतिगम्यते । अनेन ' स्वस्वतीर्थनिकारं दृष्ट्वा तीर्थोद्धारकरणार्थ पुनरपि लोके समागच्छन्ति सिद्धाः' इत्येवं प्रतिपन्नानां मतं रागद्वेषप्रमुखबहुदोषदुषितत्वादपास्तं द्रष्टव्यम् ॥ ४८ ।। अन्तरद्वारानन्तरं भागभावद्वारौ प्रतिपिपादयिषुराहसव्वजीयाणमणते भागे ते तेसिं दंसणं नाणं । खइए भाव परिणामिए अपुण होइ जीवत्तं॥४९॥
टीका-'सबजीयाणं' इति, ते प्रागुक्तस्वरूपाः सिद्धाः सर्वजीवानामनन्ततमे भागे विद्यन्ते, अत्राऽयमाशयः-चतुर्दशरज्जुपरिमिते लोके या जीवसंख्या मध्यमाऽनन्ताऽनन्तसंज्ञकाष्टमाऽनन्तप्रमाणा तदपेक्षया सिद्धाः कतिथे भागे वर्तन्त इति शिष्याशङ्कां मनसि निधाय उक्तं-ते सर्वे निखिला अपि सिद्धा न तु द्वित्राः पश्चषा वा सर्वजीवानामनन्ततमे भागेऽवतिष्ठन्त इति । ननु क्षेत्रद्वारभागद्वारयोः का प्रतिविशेष इति चेदुच्यते-क्षेत्रद्वारं तु लोकाकाशापेक्षम् , भागद्वारं सकलजीवराशिनिश्रितमिति विशिष्टो भेदः, तात्पर्य तु सिद्धाः पञ्चमाऽनन्तसंख्याप्रमिताः, सर्वजीवा अष्टमाऽनन्तसंख्यापरिकलिताः, अतः सिद्धापेक्षया सर्वजीवा अनन्तगुणाः, सर्वजीवाऽपेक्षया सिद्धा अनन्ततमभागाऽवच्छिन्ना इति भागद्वारम् । सम्प्रति भावद्वारम्ननु भाव इति कः पदार्थ ? इति चेत् प्रथमं भावानां संक्षेपतो निरूपणं विधीयते-औपशमिकः, क्षायिका, क्षायोपशमिका,
॥१५४॥