Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 344
________________ 3 > <S- | भावार्थ:-इहासदध्यवसायात्मकं सज्ज्ञानमप्यज्ञानं, तच्च मिथ्याचोदयजमेव । यदभ्यधायि-'जह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए । भन्नइ तह नाणं पिहु मिच्छद्दिहिस्स अन्नाणं ॥१॥' असिद्धचमपि सिद्धत्त्वाऽभावरूपमष्टप्रकारकोंदयजमेव । असंयमोऽविरतत्त्वं, तदपि प्रत्याख्यानावरणोदयाजायते । लेश्यास्तु येषां मते कपायनिष्यन्दो लेश्या तन्मतेन कपायमोहनीयोदयजच्चादौदयिक्यः, यन्मतेन तु योगपरिणामो लेश्या तदभिप्रायेण योगत्रयजनककर्मोदयप्रभवाः, येषां त्वष्टकर्मपरिणामो लेश्यास्तन्मतेन संसारिवासिद्धच्चवदष्टप्रकारकमोदयजा इति । कपायाः क्रोधमानमायालोभरूपा मोहनीयकर्मोदयादेव भवन्ति । इह गतयो गतिनामकर्मोदयादेव नारकत्वतिर्यक्त्वमनुजच्वदेवत्वलक्षणपर्याया जायन्त इति । वेदाः स्त्रीपुंनपुंसकाख्या नोकषायमोहनीयोदयादेव जायमानाः स्पष्टमौदयिका एवेति । मिथ्यात्वमप्यतत्वश्रद्धानरूपं मिथ्यात्वमोहनीयोदयजमेवेत्यौदयिकं प्रतीतमिति ।। ननु निद्रापंचकसातादिवेदनीयहास्यरत्यरतिप्रभृतयः प्रभूततरभावा अन्येऽपि कर्मोदयजन्याः सन्ति तत् किमित्येतावन्त एवैते निर्दिष्टाः ? सत्यम् , उपलक्षणवादन्येऽपि द्रष्टव्याः, केवलं पूर्वशास्त्रेषु प्राय एतावन्त एव निर्दिष्टा दृश्यन्त इत्यत्राप्येतावन्त एवास्माभिः प्रदर्शिताः । तथा भव्यचमभव्यत्वं जीवत्वमित्येते त्रयो भेदाः पारिणामिके भावे भवन्ति । तदेवं द्विभेद औपशमिको भावः, नवभेदः क्षायिकः, अष्टादशभेदः क्षायोपशमिकः, एकविंशतिभेद औदायिकः, त्रिभेदः पारिणामिकः । सर्वेऽपि भावपञ्चकभेदाखिपंचाशदिति । एषां भावानां मध्ये सिद्धाः कस्मिन् कस्मिन् भावे वर्तन्ते तदुच्यते-'तेसिं दसणं नाणं खइए भावे परिणामिए अपुण होइ जीवत्' तेषां सिद्धानां दर्शनं ज्ञानं उपलक्षणात् सम्यक्त्वं चारित्रं वीर्यश्च क्षायिके भावे सन्ति, अयमर्थः--ज्ञानावरणीयदर्शनावरणीयदर्शनमोहचारित्र DECz卐0卐-! E -52<!

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376