Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
S
V
॥ १५५ ॥
श्रीनवतत्त्व- शुभप्रकृतीनां विपाकतोऽनुभवनं स एव तेन वा निर्वृत्त औदयिकः । परिसमन्तान्नमनं जीवानामजीवानां च जीवत्त्वादि- 55 मोक्षतवे स्वभावानुभवनं प्रति पह्णीभवनं परिणामः, स एव तेन वा निर्वृत्तः पारिणामिकः । तत्रौपशमिकस्य द्वौ भेदौ, औपशमिकसम्यक्त्वं औपशमिकचारित्रञ्च, द्वावपि दर्शनचारित्रमोहनीयकर्मोपशमसंभवाविति । क्षायिके भावे नव भेदा भवन्ति, केवलज्ञानकेवलदर्शनक्षायिकसम्यक्त्वयथाख्यातचारित्रदानादिपञ्चलब्धयः क्रमेण केवलज्ञानावरणीय केवलदर्शनावरणीय दर्शन५ मोहचारित्रमोहान्तरायपञ्चकक्षयजन्याः । तृतीये क्षायोपशमिके भावेऽष्टादशभेदा मतिश्रुताऽवधिमनःपर्यायाऽऽत्मकज्ञान- 55 A चतुष्टयमत्यज्ञानश्रुताऽज्ञानविभंगज्ञानरूपाऽज्ञानत्रिकचक्षुरचक्षुरवधिदर्शनलक्षणदर्शनत्रिकस्वरूपा दशोपयोगाः दानलाभभोगोपभोगवीर्यलक्षणाः पञ्च सलब्धयः म्यक्त्वं देशविरतिसर्वविरतिलक्षणं विरतिद्विकश्चेतिलक्षणास्तत्तत्कर्मणां क्षयोपशमप्रादुर्भूता इति । ननु दानादिलब्धयः पूर्वं क्षायिकभाववर्त्तिन्य उक्ताः, इह तु क्षायोपशमिक्य इति कथं न विरोधः ? नैतदेवम्, अभिप्रायापरिज्ञानात् । इह दानादिलब्धयो द्विविधा भवन्त्यन्तरायकर्मणः क्षयसंभविन्यः क्षयोपशमसंभविन्यश्च तत्र च याः क्षायिक्यः पूर्वमुक्तास्ताः क्षयसंभूतत्त्वेन केवलिन एव, याः पुनरिह क्षायोपशमिकान्तर्गता उच्यन्ते ताः क्षयोपशमसंभूताश्छद्मस्थानामेव । सम्यक्त्वसर्वविरती अपि क्षायोपशमिके अत्र ग्राह्ये, ते च क्षयोपशमोद्भवत्वेन प्रस्तुतभावे एव वर्त्तते । देशविरतिरप्यप्रत्याख्यानावरणक्षयोपशमजच्वेन क्षायोपशमिके वर्त्तते एवेति भावः ॥ अज्ञानं, असिद्धवं, असंयमः, कलेश्याः कृष्णनीलकापोततेजः पद्मशुक्लभेदात् पटू, कपायाः क्रोधमानमायालोभाख्याश्चत्वारः, गतिर्नरकतिर्यङ्मनुष्यसुरगतिभेदाच्चतुर्द्धा, वेदाः स्त्रीपुंनपुंसकाख्यास्त्रयः, मिथ्यात्त्वमित्येते एकविंशति भेदास्तुर्ये औदयिके भावे भवन्ति । अत्रायं
T
A
JY
सुमङ्गला
टीकायां
N
A
L
भाव
द्वारम् ॥
।। १५५ ।।

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376