Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१५६॥
मोक्षतत्वे सिद्धानामल्पब
हुचम् ॥
z卐卐>卐卐-93979
मोहवीर्यान्तरायक्षयप्रभवत्त्वादेतानि ज्ञानदर्शनसम्यक्त्वचारित्रवीर्याणि क्षायिकानि भवन्तीत्यर्थः । न च शेष भवोपग्राहिकर्मक्षयोद्भूतत्वात् अनन्तसुखाऽक्षयस्थितिप्रमुखाणां गुणानामपिक्षायिकत्वं वाच्यमिति, क्षायिकत्वेऽपि तेषां क्षायिकव्यवहाराऽभावात् । जीवत्वं च पुनस्तेषां सिद्धिवधूत्सङ्गशालिनां मुक्तानां पारिणामिके अनादिपारिणामिके भावे भवतीति भावद्वारम् ॥४९॥
अथाल्पबहुचद्वारं विवरिपुर्गाथां निबध्नातिथोवा नपुंससिद्धा, थीनरसिद्धा कमेण संखगुणा। इअमुक्खतत्तमएं, नवतत्ता लेसओ भणिया॥५०॥
टीका-'थोवा' इति, नपुंसकलिङ्गसिद्धा सर्वस्तोकाः, स्त्रीलिङ्गसिद्धाः पुरुषलिङ्गसिद्धाश्च क्रमेण संख्यगुणाः, इदमत्र हृदयम्-एकसमय उत्कृष्टतो नपुंसकलिङ्गे वर्तमाना दश सिद्ध्यन्ति, स्त्रीलिङ्गे वर्तमानास्ततो द्विगुणा विंशतिरित्यर्थः, पुरुषलिङ्गोपेताश्चाऽष्टाधिकशतसंख्याका एकस्मिन् समये सिद्ध्यन्तीत्युत्तरोत्तरं संख्यातगुणवमविरुद्धम् । न च लिङ्गसद्भावे कथं मोक्षावाप्तिरिति शङ्कनीयं, वेदोदयलक्षणलिङ्गस्य अनिवृत्तिबादरान्ते व्यवच्छेदेऽपि लिङ्गाकृतेरयोगिगुणस्थानकं यावत् सद्भावात् । ननु नपुंसकानां कर्मक्षयलक्षणो मोक्षः कथमवाप्यते ? नपुंसकानां मोक्षावाप्तौ प्रतिषेधश्च सिद्धान्ते श्रूयते, सत्यम्पोडशभेदभिन्नानां निखिलानामपि नपुंसकानां न प्रतिषेधः किन्तु तेषु ये दश भेदा जातिनपुंसकानां तेषां निषेधः, न तु षड्भेदभिन्नानां कृत्रिमनपुंसकानामिति । जातिनपुंसकानां तीव्रमोहोदयसद्भावच्चात् सर्वविरतेरप्यसम्भवः, कुतो मोक्षस्य कथा ? कृत्रिमानां तु मंत्रौषधिमहर्षिदेवादिशापनिमित्तोपहतवेदानां न जातिनपुंसकानामिव नगरदाहतुल्यो वेदोदयः, केवलं केनापि पूर्वोक्तकारणेन पुरुषवेदस्योपहतत्त्वात् पुरुषवेदोदयाऽभावेनैव ते नपुंसकाः प्रोच्यन्ते,
095६卐८yz90925-ye
॥१५६॥

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376