________________
>卐-卐>卐<卐>yz
अधुना मिश्रस्य प्रक्रमः-त्रयाणां पुञ्जानां मध्ये योऽसावर्धविशुद्धः पुञ्जः स मिश्र उच्यते, सम्यग्मिथ्यात्वमित्यर्थः । एतदुदयात् किल पाणी जिनप्रणीतं तत्त्वं न सम्यक् श्रद्दधाति नापि निन्दति । उक्तञ्च बृहच्छतकचूर्णी-"जहा नालिकेरदीववासिस्स अइच्छुहियस्स वि पुरिसस्स इत्थ ओयणाइए अणेगहा विढोइए तस्स आहारस्स उवरिं न रुइ न य निंदा जेण कारणेणं सो ओयणाइओ आहारो न कयाइ दिठो नावि सुओ, एवं संमामिच्छदिठिस्स वि जीवाइपयस्थाणं उवरिं न रुइ न य निंदा" इत्यादि ।
सम्प्रति सास्वादनम् सम्यक्त्वलक्षणरसास्वादनेन सह वर्तत इति सास्वादनम् । यथा हि भुक्तक्षीरानविषयव्यलीकचित्तपुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति तथात्रापि गुणस्थाने मिथ्यावाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तस्य पुरुषस्य सम्यक्त्वमुद्धमतस्तद्रसास्वादो भवतीतीदं सास्वादनमुच्यते । यद्वा सासादनं सहासादनेन वर्त्तन इति सासादनम् । अयमर्थ:-औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयमात्रशेषायामुत्कर्षतः पडावलिकाशेषायां कश्चिदासादनं गच्छेत् , सासादनभावं प्रतिपद्येत । सति ह्यस्मिन् परमानन्दुस्तानन्तसुखदो निःश्रेयसतरुवीजभूतो ग्रन्थिसम्भवौपशमिकसम्यक्त्वलाभोऽपगच्छति, आसादनभावानन्तरं नियमान् मिथ्यात्वं प्रतिपद्यते ।
मिथ्यात्वं व्याख्यातपूर्वमिति गता सम्यक्त्वमार्गणा ॥ १२॥
तथा 'सन्नि ' इति, विशिष्टस्मरणादिरूपमनोविज्ञानभाक् संज्ञी, इतरोऽसंज्ञी सर्वोऽप्येकेन्द्रियादिः ॥ १३ ॥ ओजलोम प्रक्षेपाहाराणामन्यतममाहारमाहारयतीत्याहारकः, इतरोऽनाहारको विग्रहगत्यादिगतः। एते सर्वेऽपि संमीलिता द्विषष्टि
卐y卐卐z卐0525-ye
-
<
>