________________
श्रीनवतत्त्व मुमङ्गलाटीकायां॥१५१॥
मोक्षतत्त्वे सम्यक्त्वमार्गणा॥
सर्वघातिरसान्वितत्वात् । यदा चौपशमिकाद्धा परिसमाता भवति । तदाऽध्यवसायानुरूपः पूर्वोक्तत्रिपुंजमध्यादेकस्य पुञ्जस्योदयो भवति, यदि शुद्धपुञ्जस्योदयस्तर्हि क्षायोपशमिकसम्यक्त्वम् , मिश्रस्य चोदये मिश्रसम्यक्त्वम् , अशुद्धस्य चोदये मिथ्यात्वम् । अत्र तु क्षयोपशमप्रक्रमः, उदितस्य मिथ्यात्वमोहस्य क्षयोऽनुदितस्य चोपशमो यस्यामवस्थायां तत्क्षायोपशमिकम् । नन्वौपशमिकेपि उदितस्य क्षयेऽनुदितस्य चोपशमे क्षयोपशमोपशमयोरुभयोरपि तुल्यत्वे कथं भेदेन प्रतिपाद्यते? सत्यम् , भेदसद्भावे भेदो न तु भेदाऽभावे, यत औपशमिकसम्यक्त्वे दर्शनमोहत्रितयस्यापि प्रदेशविपाकाभ्यामुदयाऽभावत्वं, क्षायोपशमिके तु य उपशमस्तस्य विष्कम्भितोदयत्त्वात् सम्यक्त्वमोहनीयस्य विपाकोदयो मिथ्यावमिश्रमोहनीययोश्च प्रदेशोदयः । अपि चेदं क्षायोपशमिकं जघन्यतोऽन्तर्मुहूर्त्तकालीनमुत्कृष्टतश्च पदक्षष्टिः सागरोपमाणि असंख्येयशश्च सम्प्राप्यते, औपशमिकं पुनरासंसारं पञ्चकृत्त्वस्सम्पद्यते आन्तौहूर्तिकञ्च, कर्मोदयजन्यपरिणामराहित्यादौपशमिकमात्मपरिणतिमत् , क्षायोपशमिकं तु पौद्गलिकं कर्मोदयजन्यपरिणामात्मकत्त्वात्तस्येति । ___अथ क्षायिकम्-दर्शनमोहतियाऽनन्तानुबन्धिचतुष्टयलक्षणदर्शनसप्तकस्य क्षयादस्य प्रादुर्भावः । अस्य प्रस्थापकः क्षयोपशमसम्यग्दृष्टिश्चतुर्थपञ्चमषष्ठसप्तमगुणस्थानकाऽन्यतरगुणस्थानवी मनुष्य एव, निष्ठापकस्तु चतुर्गतिकोऽपि भवति । यद्यायुःकर्मणः बन्धात् प्रागेव क्षायिकस्य लाभस्तर्हि नियमात्तद्भवे एव मोक्षः । यद्यायुर्वन्धानन्तरं सम्यक्त्वावाप्तिस्तदा देवनरकायुषोरन्यतरस्य बन्धे सति तृतीयभवे, असंख्येयवर्षायुष्कनरतिर्यगायुपोरेकतरस्य बन्धसद्भावे चतुर्थे भवे मोक्षः। इदश्चाऽऽत्मपरिणामि कर्मक्षयसंभवाऽऽत्मिकाध्यवसाययुक्तत्त्वादिति ।
9545z4055-se
॥१५॥