SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ zy<s> < कृष्योदये प्रक्षिपति स आगालः, उदीरणाया एव विशेषप्रतिपत्त्यर्थमागाल इति संज्ञा पूर्वसूरिभिरुच्यते । उदयोदीरणाभ्यां च प्रथमस्थितिमनुभव॑स्तावद्गच्छति यावत् प्रथमस्थितेरावलिकाद्विकं शेषं तिष्ठति, तस्मिश्च स्थिते आगालो निवर्तते, ततः परं केवलैवोदीरणा प्रवर्त्तते, साऽपि तावद्यावदावलिकाशेषो न भवति, तस्यां च शेपीभूतायामुदीरणाऽपि शान्ता भवति, ततः केवलेनैवोदयेन तामावलिकामनुभवति, तस्यां चापगतायामुदयोऽपि मिथ्यात्वस्य निवर्त्तते, तद्दलिकाभावात् , ततो मिथ्यात्वोदयनिवृत्तावुपशमाद्धायां प्रविशति, तस्यां चोपशमाद्धायां प्रविष्टस्य सतःप्रथमसमय एव मोक्षवीजमौपशमिकं सम्यक्त्वमुपजायते । यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्याचवेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति, अन्तरकरणप्रथमसमये एव मिथ्यात्वदलिकवेदनाऽभावादौपशमिकसम्यक्त्वमवानोति । एवं यथाप्रवृत्ताऽपूर्वकरणानिवृत्तिकरणक्रमजन्यं अपूर्वकरणारब्धस्थितिघातादिभिर्ग्रन्थिभेदसम्भवमौपशमिकसम्यक्त्वं अपश्चितम् । अस्मिँश्च सम्यक्त्वे लभ्यमाने कश्चित् सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते । यदा च चारित्रमोहनीयस्य सूक्ष्मसम्परायान्ते सर्वोपशमना भवति तदापि यदि चतुर्थपञ्चमषष्ठसप्तमाऽन्यतरगुणस्थाने दर्शनमोहस्य सर्वोपशमनायां जातायामुपशमसम्यक्त्वयुक्त उपशमश्रेणि सम्पद्यते तत्रापि यदौपशमिकसम्यक्त्वं तत् श्रेणिगतम् । उभयभेदभिन्नमपीदमासंसारं पञ्चवारं जायते, अन्तर्मुहूर्त्तश्च कालः। ___अथ क्षायोपशमिकम्-यस्मिन् समयेऽयं जीव औपशमिकसम्यग्दृष्टिमवति तस्मिन् समये (निश्चयनयेन प्रथमस्थितिचरमसमये) द्वितीयस्थितिगत दलिकमनुभागभेदेन त्रिधा करोति, शुद्धमर्द्धविशुद्धमविशुद्ध चेति, तत्र शुद्धं सम्यक्त्वमोहनीयं, तच देशघाति देशघातिरसोपेतत्त्वात् , अर्धविशुद्धं सम्यमिथ्याचं, अशुद्धं च मिथ्याचं, एतदुभयमपि सर्वघाति imgsssz90 F卐卐 >卐 २६ !
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy