________________
श्रीनवतत्व
सुमङ्गला टीकायां V ॥ १५०॥ १५६
A
संख्यया च स्थितिघाततुल्या प्रवर्त्तते ।
अथाऽनिवृत्तिकरणम् – यथाऽपूर्वकरणप्रथमसमयादारभ्य स्थितिघातादयो युगपत्प्रवर्त्तमाना उक्ताः, एवमनिवृत्तिकरणेऽपि वक्तव्यम् । इदं च पुनरस्मिन् करणे वैशिष्ट्यम्-अनिवृत्तिकरणस्य प्रथमसमये ये वृत्ता ये वर्त्तन्ते ये च वर्त्तिष्यन्ते तेषां सर्वेषामप्यन्यूनाधिकवेन समा विशोधिः, द्वितीयसमयेऽपि वृत्तवर्त्तमानवर्त्तिप्यमाणानां समा विशोधिः, प्रथमसमयभाविविशोध्यपेक्षया वनन्तगुणा, एवमनिवृत्तिकरणचरमसमयं यावद्वाच्यं । तदेवमस्मिन् करणें प्रविष्टानां जीवानां तुल्यकालानामध्यवसायानां मिथो निवृत्तिस्तिर्यषट्स्थानपतितवैषम्यलक्षणा नास्तीत्यनिवृत्तिकरणमिति नाम । यद्वा निवृत्तिर्निवर्तनमितिपक्षे आसम्यक्त्वलाभादत्राऽऽगतो जीवो न निवर्त्तत इत्यनिवृत्तिकरणम् । ऊर्ध्वमुखी वत्राध्यवसायस्थानानामन्तगुणवृद्धिः सर्वेषु समयेषु विद्यते । अनिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु गतेषु एकस्मिँश्च संख्येयतमे भागे शेषेऽवतिष्ठति मिथ्यात्वस्याऽन्तरकरणं करोति, अंतरकरणं नामोदयक्षणादुपरि मिथ्यात्वस्थितिमन्तर्मुहूर्तमानामतिक्रम्योपरितनीं च विष्कम्भयित्वा मध्येऽन्तर्मुहूर्त्त मानं तत्प्रदेशवेद्यदलिकाऽभावकरणम्, तन्निष्पादनकालोऽप्यन्तरकरणकाल एव यथा तन्तुसंयोजनादिकालः पटकरणकालः । अन्तरकरणयोग्यस्थितेर्मध्यात् कर्मपरमाण्वाऽऽत्मकं दलिकं गृहीत्वा गृहीत्वा प्रथमस्थितौ प्रक्षिपति उपरि द्वितीयस्थितौ च, एवं प्रतिसमयं तावत्प्रक्षिपति यावदन्तरकरणदलिकं सकलमपि क्षीयते, अन्तर्मुहूर्तेन च कालेन सकलतद्दलिकक्षय इति । इहान्तरकरणादधस्तनी प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीया । तत्र प्रथमस्थितौ वर्त्तमान उदीरणाप्रयोगेण प्रथमस्थितिसत्कं उदयावलिबहिर्भूतं दलिकं समाकृष्य यदुदयसमये प्रक्षिपति सोदीरणा, यत्तु द्वितीयस्थितेः सकाशादुदीरणाप्रयोगेण समा
T
骗
T
A
S
मोक्षतवे सम्यक्त्व
M स्वरूपम् ॥
品
U
A
<5755<55
N
L
॥ १५०॥