________________
A
प्र
> - -
A
A
V
ततः पुनरप्यधस्तात्पल्योपमसंख्येयभागमात्रं स्थितिकण्डकमन्तर्मुहूर्त्तेन कालेनोत्किरति प्रागुक्तरीत्यैव च निक्षिपति, एवमपूकरणाद्धायां प्रभूतानि स्थितिखण्डसहस्राणि व्यतिक्रामन्ति, इत्थञ्चापूर्वकरणस्याद्यसमये यत् स्थितिसत्कर्माssसीत्तत्तस्यैवाsन्त्यसमये संख्येय गुणहीनं जातं, स एव स्थितिघातः । अथ रसघातः — स्थितिघातार्थमुत्कीरितो जघन्य उत्कृष्टो वा यः स्थितिखण्डस्तन्मध्यवर्त्तिदलिक गतानुभागसत्कर्मणामनन्ततमं भागं मुक्त्वा शेषाननन्तान् भागाननुभागस्याऽन्तमुहूर्तेन कालेन निःशेषानपि विनाशयति, ततो भूयोऽपि तस्य मुक्तस्याऽनन्ततमस्य भागस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्त्तेन कालेन नाशयति, एवमनेकान्यनुभागखण्डसहस्राण्येकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति, एवं प्रतिस्थितिखण्डं विज्ञेयं, एतादृशैः सहस्रैः स्थितिखण्डैरपूर्वकरणं परिसमापयति । अधुना गुणश्रेणिः- यत् स्थितिकण्डकं घा ध्याद्दलिकानि गृहीवोदयसमयादारभ्याऽन्तर्मुहूर्त्त चरमसमयं यावत्प्रतिसमयमसंख्येयगुणनया निक्षिपति, एष प्रथमसमयगृहीतदलिकनिक्षेपविधिः, एवमेव द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपविधिर्द्रष्टव्यः । किं च गुणश्रेणिरचनाय प्रथमसमयादारभ्य गुणश्रेणिचरमसमयं यावद् गृह्यमाणं दलिकं यथोत्तरमसंख्येयगुणं द्रष्टव्यम् । इहाऽन्तर्मुहूर्त्तप्रमाणो निक्षेपकालो दलरचनानुरूपगुणश्रेणिकालश्चापूर्वकरणानिवृत्तिकरणाद्धाद्विकात् किञ्चिदधिको द्रष्टव्यः, तावत्कालमध्ये चाऽधस्तनाऽधस्तनोदयक्षणे वेदनतः क्षीणे शेषक्षणेषु दलिकं रचयति, न पुनरुपरि गुणश्रेणिं वर्धयति । अथ स्थितिबन्धाद्धा भण्यते - अपूर्वकरणस्य प्रथमसमये यः स्थितिबन्धस्तदपेक्षया द्वितीये समये पल्योपमसंख्येयभागहीनो भवति, एवमग्रेऽपि भावनीयम् । स्थितिघातस्थितिबन्धयोश्च युगपदेवारब्धयोर्युगपदेव परिनिष्ठा भवति, तथा च स्थितिबन्धाद्धा कालतः
S
UM5Z5Y
G