________________
>
भीनवतत्त्वमुमालाटीकायां॥१५२॥
मोक्षतचे उत्तरमार्ग
णासु मोक्षः॥
-卐>
मेदाश्चतुर्दशमौलमार्गणास्थानानां चतुरादिसंख्याका अवान्तरभेदा ज्ञातव्याः । अत्र गाथा-चउ पण छ तिय तिय चउ अड सग चउ छच्च दु छग दो दुन्नि । गइयाइमग्गणाणं इय उत्तरभेय बासट्ठी ॥ २॥ इत्युक्ता गत्यादिमार्गणाः॥ ४५ ॥
अथ अपश्चितमार्गणासु कस्यां कस्यां मार्गणायां मोक्षस्तत्प्रतिपिपादयिषुराह- . नरगइपणिदितस भव--सन्नि अहक्खायखइयसम्मते। मक्खोणाहारकेवल--दंसणनाणे नसेसेसु॥४६॥
टीका-' नरगइ ' इति, मनुष्यगति-पश्चेन्द्रियजाति-त्रस भव्य-संज्ञि-यथाख्यात-क्षायिकसम्यक्त्वेषु मोक्षः, घण्टालालान्यायेन देहलीदीपकन्यायेन वा मोक्षपदस्योभयत्र पूर्वार्धे उत्तरार्धे च सम्बन्धात् आहार-केवलज्ञान-केवलदर्शनेषु च मोक्षः, न शेषासु मार्गणासु इति गाथाक्षरार्थः। अथ विस्तरार्थ:-अस्मिन् सिद्धव्याख्याने द्वौ नयौ विज्ञेयौ, पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च, पूर्वमतीतं भावं प्रज्ञापयतीति पूर्वभावप्रज्ञापनीयः। प्रत्युत्पन्नं वर्तमानं भावं प्रज्ञापयतीति प्रत्युत्पन्नभावप्रज्ञापनीयः। नगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ, एतेषामेव वाचोयुक्तिभेदेन ग्रहणम् । तत्र नैगमसङ्-- ग्रहव्यवहाराः सर्वकालार्थग्राहित्त्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः। ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्त्वात् प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः। अत्र तु पूर्वभावप्रज्ञापनीयो नय एवोररीकृतः। तद्यथागतिमार्गणामाश्रित्य कस्यां गतौ मोक्षः ? इति चेन्नरगत्यां न शेषासु सुरनारकतिर्यक्षु गतिषु, तत्र मोक्षसामग्रीविरहात् । एवं सर्वत्र विज्ञेयम् । जातिमार्गणायां पञ्चेन्द्रियजात्यां, बसमार्गणायां त्रसत्वे, भव्यमार्गणायां भव्यत्त्वे, संज्ञिमार्गणायां संज्ञित्वे, यथाख्यातचारित्रे च संयममार्गणायां, सम्यक्त्वमार्गणायां क्षायिकसम्यक्त्वे, आहारमार्गणायामनाहारकत्त्वे अयोग्यवस्था
F> 卐zy33cy.
-
<卐
॥१५२॥
i>