________________
NASAKT
555
A
S
-> 5
T
V
ل
S
यामाहारस्याऽभावात् ज्ञानमार्गणायां केवलज्ञाने, दर्शनमार्गणायां केवलदर्शने मोक्षः । एतासु पूर्वोक्तास्वेव मोक्षो न शेषासूक्तव्यतिरिक्तभेदास्विति ।। ४६ ।।
एवं मार्गणाद्वारेषु मोक्षसद्भावप्रतिपादनलक्षणं सत्पदमनुयोगद्वारं वाख्याय सम्प्रति द्रव्यप्रमाणक्षेत्रसंज्ञकावनुयोगद्वारावनया गाथया व्याचिख्यासुराह—
दव्वपमाणे सिद्धाणं, जीवदव्वाणि हुंतिऽणंताणि । लोगस्स असंखिज्जे, भागे इक्को य सव्वे वि ॥४७॥ टीका - ' दव्वपमाणे ' इति, द्रव्याणां प्रमाणं द्रव्यप्रमाणं तस्मिन् द्रव्यप्रमाणे सिद्धाख्यप्रस्तुतद्रव्यपरिगणने चिन्त्यमाने कियन्तः सिद्धाः ? इत्याह- अनन्तानि सिद्धजीवद्रव्याणि भवन्ति, संख्याताऽसंख्याताऽनन्तलक्षणसंख्यानां मध्येऽनन्त - N संख्याप्रमितानि सिद्धजीवद्रव्याणि सन्ति, तत्रापि परित्तयुक्तादिभेदभिन्नं यन्नवप्रकारमनन्तं तस्मिन् मध्यमयुक्तानन्तसंज्ञोपलक्षितायां पञ्चमाऽनन्तसंख्यायां न कदाचनाऽपि व्यभिचारः, उक्तञ्च - ' जइआइ होइ पुच्छा जिणाण मग्गंमि उत्तरं तइया । इकस्स निगोयस्सऽणंतभागोय सिद्धिगओ ॥ १ ॥ अस्या अयमर्थः - जैनेन्द्रमार्गे यदा कदापि सिद्धजीवद्रव्यसंख्यागोचरः प्रश्नः स्यात्तदा अयमुत्तरो यदेकस्मिन् निगोदे येऽनन्तसंख्यापरिगणिता जीवा वर्त्तन्ते तेषां मध्यादनन्ततमांशे यानि जीवद्रव्याणि तावत्संख्याकानि मोक्षे जीवद्रव्याणि भवन्तीत्यर्थः । ननु भरतैरावतक्षेत्रापेक्षया उत्सर्पिणीतृतीयारकेऽवसर्पिणीचतुर्थारके च महाविदेहापेक्षया विरहकालानपेक्षं प्रत्यहं मोक्षमार्गस्य प्रवृत्तत्त्वात् कथमनन्तसंख्यायां निगोदस्याऽनन्तभागस्वरूपायां न व्यभिचारः १ न च षाण्मासिक उत्कृष्टो मोक्षविरहकालोऽत्र
US55555L!
A
A