________________
NO
9
श्रीनवतत्त्व
सुमङ्गला
मोक्षतत्त्वे द्रव्यप्रमाणद्वारम् ॥
टीकायां
'>
4
॥१५३॥
<5
विभावनीय, यतो विरहकालानन्तरमपि सततं मोक्षगमनप्रवृतिसद्भावः प्रतिपाद्यते । सत्यं, यद्यपि प्रतिसमयं | विरहकालानन्तरं वा जीवा मोक्षं प्रयान्ति तथापि मध्यमयुक्तानन्तसंज्ञकं यत् पश्चमानन्तकं तस्याऽनन्तभेदभिन्नचान तदनन्तसंख्यायां व्यभिचारः, प्रतिसमयं वाहिनीरेणुपुञ्जपूरिताऽपि तथाप्रमाणोपेतजलधिमर्यादावत् । अपि च 'पूर्व अनन्तसंख्याभिन्नसंख्याकाः सिद्धा आसन्' एतदपि वक्तुं न शक्यते, यतःप्रवाहापेक्षया सिद्धानामनादित्चं, यदि प्राक् सिद्धजीवा असंख्यातसंख्याका भवेयुस्तर्हि ततोऽपि प्राक् सिद्धाऽभावः प्रतिपद्यते, न चैवं प्रतिपत्रमतोऽनन्तसंख्या अव्यभिचारिणीति । सम्प्रति भागद्वार-एकसिद्धजीवाः सर्वसिद्धजीवा वा लोकस्याऽसंख्येयतमेभागेऽवतिष्ठन्ते । यतो जघन्यतः सिद्धस्याऽवगाहना अष्टाङ्गुलााधिकैकरचिनप्रमाणा, न च द्विरचिनशरीरप्रमाणान्यूनावगाहनायुक्तो मोक्षं प्रपद्यते, मोक्षगमनकाले च भवोपग्राहिशरीरावगाहनायास्तृतीयो भागस्संकोचमुपपद्यते, उक्तञ्च-"एगा य होइ रयणी अद्वेव य अङ्गुलेहिं साहिया। एसा खलु सिद्धाणं जहन्न ओगाहणा भणिया ॥१॥” उत्कृष्टतस्तु तृतीयभागाधिकत्रयस्त्रिंशदुत्तरत्रिशतधनुःपरिमिता सिद्धावगाहना, यतः पञ्चशतधनुरुच्छ्रितो मुक्तिमुपपद्यते न ततोऽप्यधिकः, तृतीयभागस्तु पूर्ववत्संकोचवशान्यूनो भवति, तथा चोक्त-'तिन्निसया तित्तीसा धणुत्तिभागो य कोस छ भागो। जं परमोगाहणाय तं ते कोसस्स छन्भागो ॥२॥ एवमेकसिद्धावगाहनापेक्षया जघन्योत्कृष्टाभ्यां लोकस्याऽसंख्येयतमे भागेऽवतिष्ठन्ते सिद्धाः। निखिलसिद्धावगाहनामाश्रित्य चाऽऽयामविष्कम्भाभ्यां पश्चचत्वारिंशल्लक्षयोजनप्रमित क्षेत्रम् , उच्छ्रयेण तु योजनस्य चतुर्विंशतितमो भागः क्रोशस्य षष्ठो भागो वा त्रिभागाधिकत्रयस्त्रिंशदुत्तरत्रिशतधनुः प्रमाण इति यावत् । एषोऽपि सर्वसिद्धापेक्षोऽवगाहो लोकस्याऽसंख्येयभा
-9
25033-5
-3>
॥१५३॥