Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
zy<s>
<
कृष्योदये प्रक्षिपति स आगालः, उदीरणाया एव विशेषप्रतिपत्त्यर्थमागाल इति संज्ञा पूर्वसूरिभिरुच्यते । उदयोदीरणाभ्यां च प्रथमस्थितिमनुभव॑स्तावद्गच्छति यावत् प्रथमस्थितेरावलिकाद्विकं शेषं तिष्ठति, तस्मिश्च स्थिते आगालो निवर्तते, ततः परं केवलैवोदीरणा प्रवर्त्तते, साऽपि तावद्यावदावलिकाशेषो न भवति, तस्यां च शेपीभूतायामुदीरणाऽपि शान्ता भवति, ततः केवलेनैवोदयेन तामावलिकामनुभवति, तस्यां चापगतायामुदयोऽपि मिथ्यात्वस्य निवर्त्तते, तद्दलिकाभावात् , ततो मिथ्यात्वोदयनिवृत्तावुपशमाद्धायां प्रविशति, तस्यां चोपशमाद्धायां प्रविष्टस्य सतःप्रथमसमय एव मोक्षवीजमौपशमिकं सम्यक्त्वमुपजायते । यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्याचवेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति, अन्तरकरणप्रथमसमये एव मिथ्यात्वदलिकवेदनाऽभावादौपशमिकसम्यक्त्वमवानोति । एवं यथाप्रवृत्ताऽपूर्वकरणानिवृत्तिकरणक्रमजन्यं अपूर्वकरणारब्धस्थितिघातादिभिर्ग्रन्थिभेदसम्भवमौपशमिकसम्यक्त्वं अपश्चितम् । अस्मिँश्च सम्यक्त्वे लभ्यमाने कश्चित् सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते । यदा च चारित्रमोहनीयस्य सूक्ष्मसम्परायान्ते सर्वोपशमना भवति तदापि यदि चतुर्थपञ्चमषष्ठसप्तमाऽन्यतरगुणस्थाने दर्शनमोहस्य सर्वोपशमनायां जातायामुपशमसम्यक्त्वयुक्त उपशमश्रेणि सम्पद्यते तत्रापि यदौपशमिकसम्यक्त्वं तत् श्रेणिगतम् । उभयभेदभिन्नमपीदमासंसारं पञ्चवारं जायते, अन्तर्मुहूर्त्तश्च कालः। ___अथ क्षायोपशमिकम्-यस्मिन् समयेऽयं जीव औपशमिकसम्यग्दृष्टिमवति तस्मिन् समये (निश्चयनयेन प्रथमस्थितिचरमसमये) द्वितीयस्थितिगत दलिकमनुभागभेदेन त्रिधा करोति, शुद्धमर्द्धविशुद्धमविशुद्ध चेति, तत्र शुद्धं सम्यक्त्वमोहनीयं, तच देशघाति देशघातिरसोपेतत्त्वात् , अर्धविशुद्धं सम्यमिथ्याचं, अशुद्धं च मिथ्याचं, एतदुभयमपि सर्वघाति
imgsssz90
F卐卐
>卐
२६
!

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376