Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
श्रीनवतत्त्व मुमङ्गलाटीकायां॥१५१॥
मोक्षतत्त्वे सम्यक्त्वमार्गणा॥
सर्वघातिरसान्वितत्वात् । यदा चौपशमिकाद्धा परिसमाता भवति । तदाऽध्यवसायानुरूपः पूर्वोक्तत्रिपुंजमध्यादेकस्य पुञ्जस्योदयो भवति, यदि शुद्धपुञ्जस्योदयस्तर्हि क्षायोपशमिकसम्यक्त्वम् , मिश्रस्य चोदये मिश्रसम्यक्त्वम् , अशुद्धस्य चोदये मिथ्यात्वम् । अत्र तु क्षयोपशमप्रक्रमः, उदितस्य मिथ्यात्वमोहस्य क्षयोऽनुदितस्य चोपशमो यस्यामवस्थायां तत्क्षायोपशमिकम् । नन्वौपशमिकेपि उदितस्य क्षयेऽनुदितस्य चोपशमे क्षयोपशमोपशमयोरुभयोरपि तुल्यत्वे कथं भेदेन प्रतिपाद्यते? सत्यम् , भेदसद्भावे भेदो न तु भेदाऽभावे, यत औपशमिकसम्यक्त्वे दर्शनमोहत्रितयस्यापि प्रदेशविपाकाभ्यामुदयाऽभावत्वं, क्षायोपशमिके तु य उपशमस्तस्य विष्कम्भितोदयत्त्वात् सम्यक्त्वमोहनीयस्य विपाकोदयो मिथ्यावमिश्रमोहनीययोश्च प्रदेशोदयः । अपि चेदं क्षायोपशमिकं जघन्यतोऽन्तर्मुहूर्त्तकालीनमुत्कृष्टतश्च पदक्षष्टिः सागरोपमाणि असंख्येयशश्च सम्प्राप्यते, औपशमिकं पुनरासंसारं पञ्चकृत्त्वस्सम्पद्यते आन्तौहूर्तिकञ्च, कर्मोदयजन्यपरिणामराहित्यादौपशमिकमात्मपरिणतिमत् , क्षायोपशमिकं तु पौद्गलिकं कर्मोदयजन्यपरिणामात्मकत्त्वात्तस्येति । ___अथ क्षायिकम्-दर्शनमोहतियाऽनन्तानुबन्धिचतुष्टयलक्षणदर्शनसप्तकस्य क्षयादस्य प्रादुर्भावः । अस्य प्रस्थापकः क्षयोपशमसम्यग्दृष्टिश्चतुर्थपञ्चमषष्ठसप्तमगुणस्थानकाऽन्यतरगुणस्थानवी मनुष्य एव, निष्ठापकस्तु चतुर्गतिकोऽपि भवति । यद्यायुःकर्मणः बन्धात् प्रागेव क्षायिकस्य लाभस्तर्हि नियमात्तद्भवे एव मोक्षः । यद्यायुर्वन्धानन्तरं सम्यक्त्वावाप्तिस्तदा देवनरकायुषोरन्यतरस्य बन्धे सति तृतीयभवे, असंख्येयवर्षायुष्कनरतिर्यगायुपोरेकतरस्य बन्धसद्भावे चतुर्थे भवे मोक्षः। इदश्चाऽऽत्मपरिणामि कर्मक्षयसंभवाऽऽत्मिकाध्यवसाययुक्तत्त्वादिति ।
9545z4055-se
॥१५॥

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376