Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 337
________________ > भीनवतत्त्वमुमालाटीकायां॥१५२॥ मोक्षतचे उत्तरमार्ग णासु मोक्षः॥ -卐> मेदाश्चतुर्दशमौलमार्गणास्थानानां चतुरादिसंख्याका अवान्तरभेदा ज्ञातव्याः । अत्र गाथा-चउ पण छ तिय तिय चउ अड सग चउ छच्च दु छग दो दुन्नि । गइयाइमग्गणाणं इय उत्तरभेय बासट्ठी ॥ २॥ इत्युक्ता गत्यादिमार्गणाः॥ ४५ ॥ अथ अपश्चितमार्गणासु कस्यां कस्यां मार्गणायां मोक्षस्तत्प्रतिपिपादयिषुराह- . नरगइपणिदितस भव--सन्नि अहक्खायखइयसम्मते। मक्खोणाहारकेवल--दंसणनाणे नसेसेसु॥४६॥ टीका-' नरगइ ' इति, मनुष्यगति-पश्चेन्द्रियजाति-त्रस भव्य-संज्ञि-यथाख्यात-क्षायिकसम्यक्त्वेषु मोक्षः, घण्टालालान्यायेन देहलीदीपकन्यायेन वा मोक्षपदस्योभयत्र पूर्वार्धे उत्तरार्धे च सम्बन्धात् आहार-केवलज्ञान-केवलदर्शनेषु च मोक्षः, न शेषासु मार्गणासु इति गाथाक्षरार्थः। अथ विस्तरार्थ:-अस्मिन् सिद्धव्याख्याने द्वौ नयौ विज्ञेयौ, पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च, पूर्वमतीतं भावं प्रज्ञापयतीति पूर्वभावप्रज्ञापनीयः। प्रत्युत्पन्नं वर्तमानं भावं प्रज्ञापयतीति प्रत्युत्पन्नभावप्रज्ञापनीयः। नगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ, एतेषामेव वाचोयुक्तिभेदेन ग्रहणम् । तत्र नैगमसङ्-- ग्रहव्यवहाराः सर्वकालार्थग्राहित्त्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः। ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्त्वात् प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः। अत्र तु पूर्वभावप्रज्ञापनीयो नय एवोररीकृतः। तद्यथागतिमार्गणामाश्रित्य कस्यां गतौ मोक्षः ? इति चेन्नरगत्यां न शेषासु सुरनारकतिर्यक्षु गतिषु, तत्र मोक्षसामग्रीविरहात् । एवं सर्वत्र विज्ञेयम् । जातिमार्गणायां पञ्चेन्द्रियजात्यां, बसमार्गणायां त्रसत्वे, भव्यमार्गणायां भव्यत्त्वे, संज्ञिमार्गणायां संज्ञित्वे, यथाख्यातचारित्रे च संयममार्गणायां, सम्यक्त्वमार्गणायां क्षायिकसम्यक्त्वे, आहारमार्गणायामनाहारकत्त्वे अयोग्यवस्था F> 卐zy33cy. - <卐 ॥१५२॥ i>

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376