Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 301
________________ ह श्रीनवतत्त्व सुमङ्गला टीकायां V ॥१३४॥ <5>5< A A T A -> 5 ताश्च सप्रतिपक्षा अप्रतिपक्षाश्चेति द्विविधाः । तत्र पूर्वमल्पवक्तव्यत्त्वादप्रतिपक्षा उच्यन्ते, तावागुरुलघूपघातपराघातोच्छ्वा सातपोद्योतनिर्माणतीर्थकरनामभेदादष्ट । तत्र यदुदयात्प्राणिनां शरीराणि न गुरूणि न लघूनि नापि गुरुलघूनि किं वगुरुलघुपरिणामपरिणतानि भवन्ति तदगुरुलघुनाम १ । यदुदयात्स्वशरीरावयवैरेव प्रतिजिह्वागलवृन्दलम्बकचौरदन्तादिभिर्जन्तुरुपहन्यते स्वयंकृतोद्बन्धन भैरवप्रपातादिभिर्वा तदुपघातनाम २ । यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महासभागतः सभ्यानामपि त्रासमुत्पादयति प्रतिवादिनश्च प्रतिभां प्रतिहन्ति तत्पराघातनाम ३ । यदुदयादुच्छ्वासनिःश्वासलब्धिरुपजायते तदुच्छ्वासनाम ४ । यदुदयाञ्जन्तुशरीराणि स्वरूपेणानुष्णान्यप्युष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम ५, तद्विपाकश्च भानुमण्डलगत भूकायिकेष्वेव, न वह्नि, प्रवचने निषेधात्, तत्रोष्णत्त्वमुष्णस्पर्शोदयादुत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्त्वमिष्यत इति । यदुदयाज्जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्ति यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रताराविमानरत्नौषधयस्तदुद्योतनाम ६ । यदुदयाञ्जन्तुशरीरेष्वङ्गप्रत्यङ्गानां प्रतिनियतस्थानवर्त्तिता भवति तन्निर्माणनाम सूत्रधारकल्पं, तदभावे हि तद्भृतककल्पैरङ्गोपाङ्गनामादिभिर्निर्वर्त्तितानामपि शिरउरउदरादीनां स्थानप्रवृत्तेरनियमस्स्यात् ७ । यदुदयादष्टमहाप्रातिहार्याद्यतिशयाः प्रादुर्भवन्ति तत्तीर्थकरनाम ८ । उक्ता अप्रतिपक्षाः प्रत्येकप्रकृतयः । अथ सप्रतिपक्षा उच्यन्ते, ताश्च त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुस्वरसुभगादेययशः कीर्त्तयः स्थावरसूक्ष्मापर्याप्तसाधारणास्थिरा शुभदुस्वरदुर्भगानादेयायशः कीर्तिरूपप्रतिपक्षसहिता विंशतिः । तत्र त्रसन्त्युष्णाद्यभितप्ताः स्थानान्तरं गच्छन्तीति सा द्वीन्द्रियादयः, तद्विपाकवेद्या कर्मप्रकृतिरपि त्रसनाम १ । तद्विपरीतं स्थावरनाम, यदुदयादुष्णाद्यभितापेऽपि स्थानपरिहारासमर्थाः पृथिव्यादयः FUSN5AZALA उत्तर M प्रकृतयः ॥ G बन्धत 15 ॥१३४॥

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376