________________
ह
श्रीनवतत्त्व
सुमङ्गला
टीकायां V ॥१३४॥
<5>5<
A
A
T
A
-> 5
ताश्च सप्रतिपक्षा अप्रतिपक्षाश्चेति द्विविधाः । तत्र पूर्वमल्पवक्तव्यत्त्वादप्रतिपक्षा उच्यन्ते, तावागुरुलघूपघातपराघातोच्छ्वा सातपोद्योतनिर्माणतीर्थकरनामभेदादष्ट । तत्र यदुदयात्प्राणिनां शरीराणि न गुरूणि न लघूनि नापि गुरुलघूनि किं वगुरुलघुपरिणामपरिणतानि भवन्ति तदगुरुलघुनाम १ । यदुदयात्स्वशरीरावयवैरेव प्रतिजिह्वागलवृन्दलम्बकचौरदन्तादिभिर्जन्तुरुपहन्यते स्वयंकृतोद्बन्धन भैरवप्रपातादिभिर्वा तदुपघातनाम २ । यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महासभागतः सभ्यानामपि त्रासमुत्पादयति प्रतिवादिनश्च प्रतिभां प्रतिहन्ति तत्पराघातनाम ३ । यदुदयादुच्छ्वासनिःश्वासलब्धिरुपजायते तदुच्छ्वासनाम ४ । यदुदयाञ्जन्तुशरीराणि स्वरूपेणानुष्णान्यप्युष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम ५, तद्विपाकश्च भानुमण्डलगत भूकायिकेष्वेव, न वह्नि, प्रवचने निषेधात्, तत्रोष्णत्त्वमुष्णस्पर्शोदयादुत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्त्वमिष्यत इति । यदुदयाज्जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्ति यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रताराविमानरत्नौषधयस्तदुद्योतनाम ६ । यदुदयाञ्जन्तुशरीरेष्वङ्गप्रत्यङ्गानां प्रतिनियतस्थानवर्त्तिता भवति तन्निर्माणनाम सूत्रधारकल्पं, तदभावे हि तद्भृतककल्पैरङ्गोपाङ्गनामादिभिर्निर्वर्त्तितानामपि शिरउरउदरादीनां स्थानप्रवृत्तेरनियमस्स्यात् ७ । यदुदयादष्टमहाप्रातिहार्याद्यतिशयाः प्रादुर्भवन्ति तत्तीर्थकरनाम ८ । उक्ता अप्रतिपक्षाः प्रत्येकप्रकृतयः । अथ सप्रतिपक्षा उच्यन्ते, ताश्च त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुस्वरसुभगादेययशः कीर्त्तयः स्थावरसूक्ष्मापर्याप्तसाधारणास्थिरा शुभदुस्वरदुर्भगानादेयायशः कीर्तिरूपप्रतिपक्षसहिता विंशतिः । तत्र त्रसन्त्युष्णाद्यभितप्ताः स्थानान्तरं गच्छन्तीति सा द्वीन्द्रियादयः, तद्विपाकवेद्या कर्मप्रकृतिरपि त्रसनाम १ । तद्विपरीतं स्थावरनाम, यदुदयादुष्णाद्यभितापेऽपि स्थानपरिहारासमर्थाः पृथिव्यादयः
FUSN5AZALA
उत्तर
M प्रकृतयः ॥
G
बन्धत
15
॥१३४॥