________________
z卐>卐卐55->卐!
यत्र शिरोग्रीवं । हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतं उरउदरादि च मडभं तत्कुब्ज ३७ । यत्र पुनरुरउदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं च हीनं तद्बामनं ३८ । यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुंडं ३९ । वर्ण्यतेऽलंक्रियते शरीरमनेनेति वर्णः, स च पञ्चधा-श्वेतपीतरक्तनीलकृष्णभेदात् तन्निबन्धनं नामापि पञ्चधा । तत्र यदुदयाजन्तूनां शरीरे श्वेतवर्णः प्रादुर्भवेत् यथा बलाकादीनां तच्श्वेतवर्णनाम, एवमग्रेऽपि भावनीयम् ४४ । 'बस्तगंधअर्दने' गन्ध्यते आघ्रायते इति गन्धः, स द्विधा-सुरभिगन्धो दुरभिगन्धश्च, तन्निबन्धनं नामापि द्विधा । तत्र यदुदयाजन्तूनां शरीरेषु सुरभिगन्ध उपजायते यथा शतपत्रादीनां तत्सुरभिगन्धनाम ४५, एतद्विपरीतं दुरभिगन्धनाम भावनीयं ४६ ।' रस आस्वादनस्नेहनयोः' रस्यते आस्वाद्यते इति रसः, स च पञ्चधा;--तिक्तकटुकषायाम्लमधुरभेदात्, तिन्निवन्धनं नामापि पञ्चधा । तत्र यदुदयाजन्तूनां शरीरेषु तिक्तो रसो भवति यथा मरिचादीनां तत्तिक्तरसनाम । एवमग्रेऽपि भावनीयम् ५१ । 'छुप स्पृश संस्पर्श' स्पृश्यते इति स्पर्शः, स च कर्कशमृदुलघुगुरुस्निग्धरूक्षशीतोष्णभेदादष्टप्रकारः, तन्निबन्धनं स्पर्शनामाप्यष्टभेदं । तत्र यदुदयाजन्तूनां शरीरेषु पाषाणादीनामिव कार्कश्यं भवति तत्कर्कशस्पर्शनाम । एवमग्रेऽपि भावनीयम् ५९ । विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाट्यानुपूर्वी, तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी, सा चतुर्धा;-नरकगत्यानुपूर्वी तिर्यग्गत्यानुपूर्वी मनुष्यगत्यानुपूर्वी देवगत्यानुपूर्वी चेति ६३ । विहायसा गतिर्विहायोगतिः, प्रथमप्रकृतिव्यवच्छेदाय विहायसेति विशेषणं सा प्रशस्ता प्रशस्ता हंसगजवृषभादीनां, अप्रशस्ता खरोष्ट्रमहिषादीनां तद्विपाकवेद्या कर्मप्रकृतिरपि द्विप्रकारा विहायोगतिः ६५ । उक्ताः पिण्डप्रकृतयः,एतासां चावान्तरभेदाः पञ्चषष्टिः। अथ प्रत्येकप्रकृतयो वक्तव्याः,
.55卐८卐zoss.