SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ भीनवतत्त्वसुमङ्गलाटीकायां ८) बन्धतत्वे उत्तरप्रकृतयः॥ ) ॥१३३॥ ) | सङ्घातननामकर्मसिद्धिरिति संप्रदायाभिप्रायस्यैव युक्तत्त्वात् २७ । संहननं नामास्थिरचनाविशेषः, तत् पोढा;-वज्रर्षभनाराचं ऋषभनाराचं नाराचं अर्द्धनाराचं कीलिका सेवात्तं च। तत्र वज्र कीलिका, ऋषभः परिवेष्टनपट्टः, नाराचमुभयतो मर्कटबन्धः, ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयमेदि कीलिकाख्यबज्रनामकमस्थि यत्र भवति तद्बज्रर्षभनाराचसंज्ञमाचं संहननं २८, यत्पुनः कीलिकारहितं तदृषभनाराचं द्वितीयं, २९ । यत्रास्थ्नोर्मर्कटबन्ध एव केवलस्तन्नाराचसंज्ञं तृतीयं, ३०। यत्र पुनरेकपार्थे मर्कटबन्धो द्वितीयपार्श्वे च कीलिकाबन्धस्तदर्धनाराचं चतुर्थ, ३१ यत्रास्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्कीलिकाख्यं पञ्चमं, ३२, यत्र पुनः परस्परं पर्यन्तस्पर्शमात्रलक्षणां सेवामागतान्यस्थीनि भवन्ति नित्यमेव स्नेहाऽभ्यङ्गादिरूपां सेवां प्रतीच्छन्ति वा तत्सेवार्ताख्यं षष्ठं, ३३ । एतन्निबन्धनं संहनननामकर्माऽपि पोढा । संस्थानमाकारविशेषः सङ्गृहीतसङ्घातितबद्धेष्वौदारिकादिपुद्गलेषु यदुदयाद्भवति तत्संस्थाननाम, एवमग्रेऽपि भावनीयं । समाः सामुद्रिकशास्त्रोक्तप्रमाणलक्षणविसंवादिन्यश्चतस्रोऽस्रयश्चतुर्दिग्भागोपलक्षिताः शरीरावयवा यस्य तत्समचतुरस्रं, ३४ । नाभेरुपरि सम्पूर्णप्रमाणत्वादधस्त्वतथाच्वादुपरि संपूर्णप्रमाणाधोहीनन्यग्रोधवत् परिमंडलं यस्य तन्यग्रोधपरिमंडलं ३५ । आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, ततः सह आदिना नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्त्तत इति सादि, विशेषणाऽन्यथाऽनुपपत्त्या विशिष्टार्थलाभः। अपरे तु साचीति पठन्ति, तत्र साचीति समयविदः शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं तत्साचि, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टं उपरि च न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरिभागस्तु न तथेति भावः ३६ । ) )- >) ॥१३३॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy