________________
ZE
>;
पञ्चधा ९ । शीर्यत इति शरीरं, तच्च पञ्चधा-औदारिकं वैक्रियं आहारकं तैजसं कार्मणं च, तद्विपाकवेद्यं कर्मापि शरीरनाम पञ्चधा । यदुदयादौदारिकशरीरयोग्यान् पुद्गलानादायौदारिकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योन्यानुगमरूपतया संबन्धयति तदौदारिकशरीरनाम एवं शेषशरीरनामान्यपि भावनीयानि १४ । अङ्गान्यष्टौ शिरःप्रभृतीनि । उक्तश्च;-'सीसमुरोयरपिट्ठी दो बाहू ऊरुया य अटुंगा' । तदवयभूतान्यङ्गुल्यादीन्युपाङ्गानि । शेषाणि तु तत्प्रत्यवयव- । भूतान्यङ्गुलिपर्वरेखादीन्यङ्गोपाङ्गानि । ततोऽङ्गानि चोपाङ्गानि चाङ्गोपाङ्गानि, अङ्गोपाङ्गानि चाङ्गोपाङ्गानि चाङ्गोपाङ्गानि | 'सरूपाणामेकशेषः' इत्येकशेषः, तन्निमित्तं कर्माङ्गोपाङ्गं तत्रिधा, औदारिकाङ्गोपाङ्ग, वैक्रियाङ्गोपाङ्गं आहारकाङ्गोपाङ्ग च । तत्र यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तदौदारिकाङ्गोपाङ्गनाम, एवं वैक्रियाऽऽहारकाङ्गोपाङ्गनाम्नी अपि भावनीये । तैजसकार्मणयोस्तु जीवप्रदेशसमानसंस्थानत्त्वान्नास्त्यङ्गोपाङ्गसम्भवः१७ । बध्यतेऽनेनेति बन्धनं, यदुदयादौदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परमेकत्वमुपजायते काष्ठद्वयस्येव जतुसम्बन्धात् , तच्चौदारिकबन्धनादिभेदेन पञ्चप्रकारं २२। सङ्घात्यन्ते गृहीचा पिण्डीक्रियन्ते औदारिकादिपुद्गला येन तत्संघातनं, तदप्यौदारिकसङ्घातनादिभेदेन पञ्चविधं । अथ कोऽस्य व्यापारः ? पुद्गलसंहतिमात्रमिति चेन्न, पुद्गलसंहतिमात्रस्य ग्रहणमात्रादेव सिद्धत्वात् तत्र संघातननामकर्मणोऽनुपयोगाद्, औदारिकादिशरीररचनानुकारिसङ्घातविशेषस्तद्व्यापार इति संप्रदायमतं, तदपि न, तन्तुसंहतेः पट इवौदारिकादिवर्गणाप्रभवपुद्गलसंहतेरेवौदारिकशरीरादौ हेतुत्वात् तत्राधिकविशेषानाश्रयणादिति चेत्सत्यं, प्रतिनियतप्रमाणौदारिकादिशरीररचनार्थ संहतिविशेषस्यावश्याश्रयणीयत्वात्तनिमित्ततारतम्यभागितया
is卐卐yz卐095-
-
-
>