SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ N CS! भीनवतत्त्वसुमङ्गलाटीकायां बन्धतत्त्वे उत्तरप्रकृतिभेदाः ॥ ॥१३२॥ ><卐-卐>卐-g卐卐卐 दीर्घ निःश्वसिति तच्छोकमोहनीयं, २३ । यदुदयात्सनिमित्तमनिमित्तं वा स्वसङ्कल्पतो बिभेति तद्भयमोहनीयं, २४ । यदुदयाच्छुभमशुभं वा वस्तु जुगुप्सते तज्जुगुप्सामोहनीयं २५ । वेदत्रिकं स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च । तत्र यदुदये स्त्रियाः पुंस्यभिलाषः पित्तोदये मधुराभिलाषवत् स स्त्रीवेदः, २६ । यदुदयात्पुंसः स्त्रियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स पुरुषवेदः, २७ । यदुदयात्स्त्रीपुंसयोरुपर्यभिलाषः पित्तश्लेष्मोदये मज्जिकाभिलाषवत् स नपुंसकवेदः २८ । एते षोडश कषाया नव च नोकषायाश्चारित्रमोहसंज्ञाः॥ सुरायुनरायुस्तिर्यगायुनराकायुश्चेति चतस्र आयुषः प्रकृतयः॥ अथ नामकर्मण उत्तरभेदानाह चतुर्दशपिण्डप्रकृतयोऽष्टाऽप्रतिपक्षाः प्रत्येकप्रकृतयस्त्रसदशकं स्थावरदशकं चेति द्विचत्वारिंशन्मूलनामप्रकृतयः । तत्र गतिजातिशरीराङ्गोपाङ्गबन्धनसङ्घातसंहननसंस्थानवर्णगन्धरसस्पर्शानुपूर्वीविहायोगतयश्चतुर्दश पिण्डप्रकृतयः। पिण्डत्त्वं अवान्तरभेदयुक्तत्त्वं, तत्र गम्यते तथाविधकर्मसचिवैर्जीवैः प्राप्यत इति गतिः नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिश्च, तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः, सापि चतुर्द्धा । एकेन्द्रियादीनामेकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनं तथाविधसमानपरिणतिलक्षणं सामान्यं जातिः, तद्विपाकवेद्या कर्मप्रकृतिरपि जातिः । अयमत्र पूर्वसूरीणामभिप्रायः-द्रव्यरूपमिन्द्रियमङ्गोपाङ्गनामेन्द्रियपर्याप्तिसामर्थ्यात्सिद्धं, भावरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामर्थ्यात् 'क्षायोपशमिकानीन्द्रियाणि' इति वचनात् । यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिमित्तं सामान्यं तदन्याऽसाध्यत्वाजातिनामनिबन्धनमिति, जातिः पञ्चधा-एकेन्द्रियजातिभन्द्रियजातिस्वीन्द्रियजातिश्चतुरिन्द्रियजातिः पञ्चेन्द्रियजातिश्चेति । तद्विपाकवेद्यं जातिनामकर्मापि ६卐EZ_05 - ॥१३२॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy