SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ N V A मोहनीयं त्रिधा, तत्र यदुदयाज्जिनप्रणिततच्वाश्रद्धानं तन्मिथ्यात्वं । यदुदयाज्ञ्जिनप्रणीततत्त्वं न सम्यक् श्रद्धत्ते नापि निन्दति तत् A सम्यग्मिथ्यात्त्वं । यदुदयवशाञ्जिनप्रणीततत्त्वं सम्यक् श्रद्धत्ते तत् सम्यक्त्वम् ३ । कषायनोकपायभेदाभ्यां चारित्रमोहनीयं द्विधा, तत्र षोडश कषायभेदाः, कषस्य संसारस्यायो लाभो येभ्यस्ते कषायाः क्रोधमानमायालोभाः, ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानावरणप्रत्याख्यानावरणसंवलनभेदाच्चतुर्धा, तत्रानन्तं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनः, एषां च संयो5 जना इति द्वितीयमप्यस्ति नाम संयोज्यन्ते सम्बध्यन्तेऽनन्तैर्भवै जन्तवो यैस्ते संयोजना इति व्युत्पत्तेः ७ । न विद्यते स्वल्पमपि प्रत्याख्यानं येषामुदयात्तेऽप्रत्याख्यानाः ११ । प्रत्याख्यानं सर्वविरतिरूपमाव्रियते यैस्ते प्रत्याख्यानावरणाः १५ । परीपहो - पसर्गनिपाते सति चारित्रिणमपि सं ईषज्वलयन्तीति संज्वलनाः ११ । नोकषाया इत्यत्र नोशब्दः साहचर्ये, ततः कषायैः T सहचारिणः सहवर्तिनो ये ते नोकषायाः, कैः कषायैः सहचारिण इति चेदाद्यैर्द्वादशभिः । तथाहि ; - नाद्येषु द्वादशसु कषायेषु क्षीणेषु नोकपाया अवतिष्ठन्ते, तदनन्तरमेव तेषामपि क्षपणाय क्षपकस्य प्रवृत्तेः । यद्वैते समुजृम्भमाणा अवश्यं कषायानुद्दीA पयन्ति ततः कषायसहचारिणः । उक्तञ्चः - 'कषायसहवर्त्तित्त्वात्कषायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता || ( १ ॥ ते च नोकषाया नव, हास्यादिषट्कं वेदत्रिकञ्च । तत्र हास्यादिषट्कं हास्यरत्यरतिभयशोकजुगुप्सालक्षणं । तत्र यदुदयात्सनिमित्तमनिमित्तं वा हसति तद्धास्यमोहनीयम् २० । यदुदयाद्वाह्याभ्यन्तरेषु वस्तुषु प्रीति तद्रतिमोहनीयं २१ । यदुदयातेष्वप्रीतिस्तदरतिमोहनीयं, २२ । प्रीत्यप्रीती सातासातात्मके एवेति वेदनीयकर्मणैवानयोरन्यथासिद्धिरिति नाशङ्कनीयं, तदुपनीतसुखदुःखहेतुसंनिधानेऽपि चित्ताऽन्यथाभावस्यैतद्व्यापारत्वात्, यदुदयात् प्रियविप्रयोगादावाक्रन्दति भूपीठे लुठति UA5N50A L
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy