________________
बन्धतत्वे
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१३१॥
-卐>卐८卐>卐
उत्तरप्रकृतिभेदाः ॥
एतच्च सर्वघातीति ५॥
अथ नवविधं दर्शनावरणं, तद्यथा-सर्वमेवेन्द्रियं सामान्यविशेषबोधस्वभावस्याऽऽत्मनः करणद्वारं, पश्यत्यनेनेति चक्षुः, तद्वारकं च सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनं, तल्लब्धिघाति चक्षुर्दर्शनावरणम् १ । शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं, तल्लम्धिघाति अचक्षुदर्शनावरणम् २ । अवधिरेव दर्शनमवधिदर्शनम् , तदावरणमवधिदर्शनावरणम् ३ । केवलमेव दर्शनं केवलदर्शनं, तदावरणं केवलदर्शनावरणम् ४ । 'द्रा' कुत्सायां, नियतं द्राति अविस्पष्टतया कुत्सितत्त्वं गच्छति चैतन्यं यस्यां स्वापावस्थायां सा निद्रा, नखच्छोटिकामात्रसाध्यप्रबोध्यस्वापावस्थेत्यर्थः ५ । निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मध्यमपदलोपी समासः, तस्या ह्यत्यन्तमस्फुटीभूतं चैतन्यं बहुभिर्यनैः प्रयोधमुपयाति ६ । उपविष्ट ऊर्ध्वस्थितो वा प्रचलति घूर्णते यस्यां स्वापावस्थायां सा प्रचला ७ । प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, इयं हि चङ्क्रमणादि कुर्वतोऽप्युदयमागच्छतीति प्रचलातोऽस्या अतिशायिनीत्वं, ८ । स्त्याना पिण्डीभूता ऋद्धिरात्मशक्तिरूपा यस्यां स्वापावस्थायां सा स्त्यानर्द्धिः, तद्भावे हि प्रथमसंहननस्यार्धचक्रवर्धवलसदृशी शक्तिरुपजायते ९ । अत्र निद्रादयः समधिगताया एव दर्शनलब्धेपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तु उद्गमोच्छेदित्वात्समूलघातं दर्शनलन्धिं हन्तीति बहुश्रुतवचनम् । तथा च प्राप्तस्य दर्शनस्य नाशकत्वेनाऽप्राप्तस्य च प्रतिवन्धकत्त्वेन नवानामपि प्रकृतीनां दर्शनावरणचं परिभाषितं भवति ।। वेदनीयस्य द्वे प्रकृती, सातमसातंच, तत्र यदुदयादारोग्यविषयोपभोगादिजनितमालादलक्षणं सातं वेद्यते तत्सातवेदनीयम् १। तद्विपरीतमसातवेदनीयम् २ । दर्शनमोहनीय-चारित्रमोहनीयभेदाभ्यां मोहनीयं द्विविधं, तत्र मिथ्याच्च-सम्यग्मिथ्यात्त्व-सम्यक्त्वभेदैर्दर्शन
卐
<卐-卐
॥१३१॥
>