SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ z > > ज्ञानावरणं, श्रुतज्ञानावरणं, अबधिज्ञानावरणं, मनःपर्ययज्ञानावरणं, केवलज्ञानावरणं । तत्राऽऽत्मनो ज्ञस्वभावस्य प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा मतिज्ञानादिव्यपदेश्या बहुविकल्पाः। तत्र च ज्ञानावरणस्य स्वस्थाने यावन्तो विकल्पाः सम्भवन्ति ते सर्वे ज्ञानावरणेनैव ग्राह्या। विकल्पाश्चमे-इन्द्रियानिन्द्रियनिमित्तत्त्वादवग्रहादयो मतिज्ञानस्य, अङ्गानङ्गविकल्पाः श्रुतज्ञानस्य, भवक्षयोपशमजप्रतिपात्यादिविकल्पाश्चावधिज्ञानस्य, ऋजुविपुलमतिविकल्पौ मनःपर्यायज्ञानस्य, सयोगाऽयोगस्थादिविकल्पाः केवलज्ञानस्येति । तत्रेन्द्रियनिमित्तं श्रोत्रादिपञ्चकसमुद्भवं क्षयोपशमजं ज्ञानं योग्यदेशावस्थितस्वविषयग्राहि, अनिन्द्रियं तु मनोवृत्तिरोघज्ञानश्च, तदेतन्मतिज्ञानं चतुरष्टाविंशतिद्वात्रिंशत्पत्रिंशदुत्तरत्रिशतभेदमाब्रियते येन तन्मतिज्ञानावरणम् देशघाति लोचनपटलवच्चन्द्रप्रकाशाऽभ्रादिवद् वा १। तथा श्रोत्रन्द्रियलब्धिः श्रुतं शेषेन्द्रियमनोविज्ञानश्च श्रुतग्रन्थानुसारि स्वार्थाभिधानप्रत्यलं श्रुतज्ञानं, तदनेकभेदमाचक्षते प्रवचनाऽभिज्ञाः । यथाह बृहत्कल्पे- जावंति अस्कराई, अस्करसंजोग जत्तिया लोए। एवइआ पगडीओ, सुयनाणे होंति नायव्वा' ॥१॥ तस्यावरणं श्रुतज्ञानावरणम् , एतदपि देशघातीति २। अन्तर्गतबहुतरपुद्गलद्रव्यावधानादवधिः, पुद्गलद्रव्यमर्यादयैव वाऽऽत्मजःक्षयोपशमजः प्रकाशाविर्भावो वाऽवधिरिन्द्रियनिरपेक्षः साक्षात् ज्ञेयग्राही लोकाकाशप्रदेशमानप्रकृतिभेदः, तदावरणमवधिज्ञानावरणम् , इदमपि देशघात्येव ३। तथा मनुष्यक्षेत्राऽन्तर्वर्तिसंज्ञिपश्चेन्द्रियगृहीतचिन्तितमनोद्रव्यपर्यायान् निमित्तीकृत्य पल्योपमाऽसंख्येयभागावच्छिन्नभूतभविष्यत्सम्बन्धिसामान्यविशेषग्राही आत्मनो यः प्रतिभासस्तन्मनःपर्यायज्ञानं, तस्यावरणं मनःपर्यायज्ञानावरणं, एतदपि देशघाति ४ । समस्तावरणक्षयाविर्भूतमात्मप्रकाशतत्त्वमशेषद्रव्यपर्यायग्राहि केवलज्ञानं, तदाच्छादनकृत् केवलज्ञानावरण > - < >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy