________________
>卐
श्रीनवतत्त्व सुमङ्गलाटीकायां॥१३०॥
बन्धतत्त्वे मूलोत्तरप्रकृतिविधानम् ॥
卐
>卐
-卐
दर्शनश्च ज्ञानदर्शने तयोरावरणं ज्ञानदर्शनावरणं, ज्ञानावरणं दर्शनावरणं चेत्यर्थः । तथा वेद्यते सुखदुःखरूपतयाऽनुभूयते यत्तद्वेद्यम् , वेदनीयमित्यर्थः, यद्यपि सर्व कर्म वेद्यते तथापि पंकजादिशब्दवद्वेद्यशब्दस्य रूढिविषयत्वात्साताऽसातरूपमेव कर्म वेद्यमित्युच्यते न शेषम् । तथा मोहयति जानानमपि प्राणिनं सदसद्विवेकविकलं करोतीति मोहः, लिहादित्त्वादच्प्रत्ययः, मोहनीयमित्यर्थः। तथा एति गच्छत्यनेन गत्यन्तरमित्यायुः, यद्वा एति आगच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादिदुर्गनिर्गन्तुमनसोऽपि जन्तोरित्यायुः । उभयत्रापि उणादिको णुस् प्रत्ययः, यद्वाऽऽयाति भवाद्भवान्तरं संक्रामतां जन्तूनां निश्चयेनोदयमागच्छति, पृषोदरादित्त्वाच्छब्दसिद्धिः, यद्यपि च सर्व कर्मोदयमायाति तथाप्यस्त्यायुषो विशेषः यतः शेषं कर्म बद्धं सत् किंचित्तस्मिन्नेव भवे उदयमायाति, किश्चित्तु प्रदेशोयभुक्तं जन्मान्तरेऽपि स्वविपाकत उदयं नायातीत्येवेत्युभयत्रापि व्यभिचारः, आयुषि त्वयं नास्ति, बद्धस्य तस्मिन्नेव भवेऽवेदनात् , जन्मान्तरसङ्क्रान्तौ तु स्वविपाकतोऽवश्यं वेदनादिति विशिष्टस्यैवोदयागमनस्य विवक्षितत्त्वात्तस्य चायुष्येव सद्भावात्तस्यैवैतन्नाम, अथवा आयान्त्युपभोगाय तस्मिन्नुदिते सति तद्भवप्रायोग्याणि सर्वाण्यपि शेषकाणीत्यायुः । तथा नामयति गतिजातिप्रभृतिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम । तथा 'गुङ्' शब्दे, गूयते शब्द्यते उच्चावच्चैः शब्दैरात्मा यस्मात्तद्गोत्रम् । तथा विशेषेण हन्यन्ते दानादिलब्धयो विनाश्यन्तेऽनेनेति ' स्थास्नायुधिव्याधिहनिभ्यः कः' इति कप्रत्यये विनमन्तरायम् । 'चः' समुच्चये । ' पणनवदुअट्ठवीस' इत्यादि, अत्र द्वन्द्वगर्भो बहुव्रीहिसमासः। भावार्थः पुनरयम् :-पञ्चविधं ज्ञानावरणम् , नवविधं दर्शनावरणम् , द्विविधं वेद्यं, अष्टाविंशतिविधो मोहः, चतुर्विधमायुः,त्र्युत्तरशतविधं नाम, द्विविधं गोत्रं पञ्चविधं विघ्नमिति । तत्र पश्चविधं ज्ञानावरणं,यथा मति
in 405552250<-पर
-)
-
)
॥१३०॥
>卐