SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ <>yz 卐-卐> अतो गोत्रकर्म कुम्भकारकल्पम् । दारिद्यभागद्विजाशीर्वचः श्रुत्त्वा प्रसबेन नृपतिना जीविताहदानार्थमादेशे दत्तेऽपि कार्पर्ण्यदोषाकुलो भाण्डागारिकस्तस्मै द्विजाय न किश्चित्प्रयच्छति तथा योग्यसामग्रीसद्भावेऽपि दानं दातुमादातुं वा अन्तरायोदयभागय जीवो न शक्नोति तस्माद्वाण्डागारिककल्पमन्तरायकर्म इति ॥ ३८ ॥ अथ प्रकृतिबन्धं विधानतो भावयति:इह नाणदंसणावरणवेयमोहाउनामगोयाणि। विग्धं च पण नव दुअट्टवीस चउतिसयदुपणविहं॥३९॥ ___टीका;-' इह ' इति अस्मिन् बन्धप्रकरणे प्रकृतिबन्धो मूलभेदाऽपेक्षयाऽष्टविधः, उत्तरभेदाऽपेक्षया अष्टापञ्चाशदधिकशतप्रकार इत्युपरिष्टाद्विज्ञेयम् , ते च मूलोत्तरभेदाः किंनामानः कस्य मूलभेदस्य कतिसंख्याका उत्तरभेदा इत्यनया गाथया प्रदर्श्यते । तत्रादौ मूलभेदानामग्राहमाहा-'नाणदंसणावरणवेयमोहाउनामगोयाणि विग्धं च' इति, अत्राऽऽवरणशब्दस्योभयत्र सम्बन्धात् ज्ञानावरणदर्शनावरणे, ज्ञानावरणश्च दर्शनावरणश्च वेद्यश्च मोहश्च आयुश्च नाम च गोत्रश्चेति ज्ञानावरणदर्शनावरणवेद्यमोहायुर्नामगोत्राणीति द्वन्द्वः । तत्र ज्ञायते परिछिद्यते वस्त्वनेनेति ज्ञानं, ज्ञप्तिर्वा ज्ञानम् , सामान्यविशेषाऽऽत्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः । तथा दृश्यतेऽनेनेति दर्शनं, दृष्टिा दर्शनं, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः । आब्रियते आच्छाद्यतेऽनेनेत्यावरणं, यद्वाऽऽवृणोत्याच्छादयति 'रम्यादिभ्यः कर्त्तरि, इत्यनटि प्रत्यये आवरणं, मिथ्याच्चादिसचिवजीवव्यापाराहृतकर्मवर्गणाऽन्तःपाती विशिष्टपुद्गलसमूहः । ततो ज्ञानश्च - 17卐<
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy