________________
>yz
श्रीनवतचसुमङ्गलाटीकायां॥१२९॥
बन्धतत्वे पटप्रतिहा| रादिदृष्टान्तानि ॥
नरदेवदर्शनाभिलाषी कश्चिन्मनुजो राजभुवनद्वारिसमागतोऽपि प्रतीहारेण निषिद्धः सन् दर्शनेच्छायां सत्यामपि तल्लाभवश्चितो भवति, एवं चित्रविचित्रपदार्थालोकनसुगंधिद्रव्याघ्राणनसंगीतप्रमुखध्वनिश्रवणादीन्यभिलपन्नपि चक्षुरचक्षुर्दर्शनावरणसंज्ञककर्मोदयावाप्ताऽन्धत्त्वबधिरवादिकः स्वाभिलाषापूरणेऽसमर्थो भवति तस्माद्दर्शनावरणं प्रतीहारकल्पम् ॥
मधुलिप्ताऽसिधारा मुखे प्रक्षिप्ता सती यावत्कालं मध्वंशस्तावत्स्वादातिशयं प्रयच्छति, किन्त्वनन्तरं जिह्वाच्छेदं विधत्ते तद्वद् यावत्सातोदयस्तावत्सुखानुभवस्स्यादनन्तरमशातोदयेनाऽशुभविपाकोदयो भवतीत्यतो वेदनीयं मधुलिप्तासितुल्यम् ।
मदिरापानमत्तो मातृकलत्रादिविवेकविकलस्सञ्जायते तथा मोहनीयकम्र्मोदयवानात्मा श्रद्धामूलकं हेयोपादेयनिवृत्तिप्रवृत्तिलक्षणं विवेकं न सञ्जानीते ततो मदिरापानोपमं मोहनीयम् ।
निगडनिक्षिप्तकरचरणो नरो यथापराधं यावद्दण्डकालस्तावन्न निगडान्मुच्यते, एवं यावद्विवक्षितभवायुरुदयस्तावत्तद्धवान्मोक्तुं ना) भवतीत्यायुनिगडसंनिभम् ।
विचित्रचित्रपरिकर्मकुशलो यथाचातुर्य शुकपिकनरामरादीनां चित्राणि रचयति तथा तत्तनामकोदयेन कश्चिदात्मा शुकः कश्चिन्नारकः कश्चिद्देवः कश्चिनरः कश्चिदेकेन्द्रियः कश्चित्पश्चेन्द्रियः कश्चित्सुसंस्थानः कश्चिद्वामनो जायते, तस्मान्नामकर्म चित्रकारकल्पम् ।
कुलालनिष्पन्नानां घटानां समत्वेऽपि एकस्मिन् घटे इक्षुरसाद्यानि पेयानि नियन्ते, एकस्मिंश्च मदिराप्रमुखमादकद्रव्याणि क्षिप्यन्ते, एवमात्मच्चे समानेऽपि उच्चैर्गोत्रोदयेन प्रशस्यकुले समुत्पत्तिः, नीचैर्गोत्रोदयेन च निन्द्यकुले उपपातः,
卐卐 E卐5209
>
>卐4->
॥१२९n