SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 5 5 7 N 品 T A T 品 V A <5>55<5>55<_< मेव काषायिकं सलेश्यं वीर्यं परिगृह्यते, तस्यैव बन्धादिहेतुच्चादिति । अपि च उपादानं तु यथायोगं कर्मस्कन्धानामेव जायते परमुपादीयमानकर्मस्कन्धेषु तत्समयवर्तिकषायोदयलेश्यानुसारिणौ जघन्योत्कृष्टतीत्रमन्दस्थितिरसावुत्पद्येते, प्रागुक्तरीत्या च स्थितिरसप्रदेशानां समुदायः प्रकृतिबन्ध इत्युक्तं केवलं वाचः क्रमवर्त्तित्त्वात् प्राक् प्रकृतिबन्धः पञ्चात्स्थितिबन्ध इत्यादिक्रमेण प्रतिपादनं जायत इति ।। ३९ ।। योगकषायानुसारबध्यमानकर्म्मणां कथंभूता प्रकृतिरिति दृष्टान्तेन भावयतिः— पडपडिहारऽसिमज्ज-हडचित्तकुलालभंडगारीणं । जह एएसिं भावा, कम्माणऽवि जाण तह भावा ॥ ३६ ॥ टीका; - पटप्रतिहारासिमद्यनिगडचित्रकार कुलालकोषाध्यक्षानां यथा तत्र तत्र तत्तच्चेष्टितं विज्ञायते तथा कर्म्मणामपि क्रमशः पटप्रतीहारादीनां चेष्टितत्त्वमिव विविधाश्रेष्टाः प्रकृतित्त्वेनानुभूयन्त इति गाथासंक्षेपार्थः । अत्रायमाशयःआकर्णायतनिर्मलतरनेत्रोऽपि घट्टपटाच्छादितदृष्टिकस्सन् सन्मुखवर्त्तिनोऽपि पदार्थान् द्रष्टुं न पारयति, किश्चित्तनुपटच्छन्नचक्षुष्कः पदार्थगोचरमीपदाभासं जनयति, प्रतनुपटावृतलोचनः पूर्वापेक्षया विशेषं पश्यति, विगतसमूलपटाद्यावरणवादच्छलोचनः स्पष्टां दृष्टिमर्यादां साध्नोति, एवं निबिडनिविडतरनिविडतमज्ञानावरणावृतात्मा ज्ञानमयत्वेऽप्यात्मनोऽनन्तज्ञानांशमृते विवेकादिविकलस्सन् किञ्चिजीवाजीवादिपदार्थविज्ञाने न समर्थो भवति, जाते च ज्ञानावरणीयस्य क्षयोपशमे क्षयोपशमानुसारी स्पष्टः स्पष्टतरः स्पष्टतमो बोधस्सञ्जायते, यदा चाऽशेषज्ञानावरणीयस्यापगमस्तदा लोकालोकवर्ण्यशेपमपि हस्तामलकवत् L आत्मगोचरं जायत इत्यतो ज्ञानावरणस्य पटौपम्यमिति । G A ड A
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy