________________
श्रीनवतत्व
सुमङ्गला
टीकायां
॥ १२८ ॥
A
(
तद्भन्धनम् । सङ्क्रम्यन्तेऽन्यकर्मरूपतया व्यवस्थिताः प्रकृतिस्थित्यनुभागप्रदेशा अन्यकर्मरूपतया व्यवस्थाप्यन्ते येन तत्सङ्क्रमणम् । तद्भेदावेव उद्वर्त्तनाऽपवर्त्तने, ते च कर्मणां स्थित्यनुभागाश्रये, तत्रोद्वर्त्तेते प्रभृतीक्रियेते स्थित्यनुभागौ यया वीर्यपरिणत्या सा उद्वर्त्तना । अपवर्त्येते इस्वीक्रियेते तौ स्थित्यनुभागौ यया साऽपवर्त्तना । उदीर्यतेऽनुदयप्राप्तं कर्मदलिकमुदयावलिकायां प्रवेश्यते यया सा उदीरणा । उपशम्यते उदयोदीरणानिधत्तिनिकाचनाकरणाऽयोग्यच्त्वेन व्यवस्थाप्यते कर्म यया सा उपशमना । निधीयते उद्वर्त्तनाऽपवर्त्तनाऽन्यशेषकरणाऽयोग्यच्वेन व्यवस्थाप्यते कर्म यया सा निधत्तिः । पृषोदरादित्वादिष्टरूपसिद्धिः । 'कच बन्धने' नितरां कच्यते स्वयमेव बन्धमायाति तथाविधसंक्लिष्टाऽध्यवसायस्य जीवस्य कर्म तत्प्रयुङ्क्ते जीव एव तथानुकूल्येन भवनादिति प्रयोक्तृव्यापारे णिङ् प्रत्ययः, ततो निकाच्यते सकलकरणाऽयोग्यच्त्वेनाऽवश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सा निकाचना, अथवा 'कच बन्धने' इति चौरादिकोऽप्यस्तीति तस्येदं रूपम् ॥ १॥ " करणञ्च सलेश्यवीर्यम्, स एवाऽध्यवसायः । न च प्राग्बन्धस्ततो सङ्क्रमः पश्चादुद्वर्त्तनेति क्रमेण करणप्रवृत्तिर्वाच्या, यतो यदा बन्धस्तत्समकालमेव सङ्गमादीनि करणादीनि यथायोगं प्रवर्त्तन्ते, केवलं यदा बन्धस्य विवक्षा तदा तन्निमित्तकोऽध्यवसायः बन्धनकरणनाम्ना प्रोच्यते, यदा संक्रमस्य विवक्षा तदा सैवाऽध्यवसायः सङ्कमकरणसंज्ञयोच्यते, यथैकः पुरुषः पुत्रापेक्षया पिता भवति, कान्तापेक्षया पतिर्भवति, अम्बापेक्षया पुत्रो भवति, भात्रापेक्षया भ्राताऽपि भवति । यतो द्विविधं हि वीर्यं, छाद्मस्थिकं कैचलिकं च, उभयमपि प्रत्येकमकषायि सलेश्यं च भवति, तत्र छाद्मस्थिकमकपायि सलेश्यमुपशान्तक्षीणमोहानां, कैवलिकं च सलेश्यं सयोगिकेवलिनां, अयोगिकेवलिनां सिद्धानाञ्च कैवलिकमप्यलेश्यं भवति । सूक्ष्मसम्परायान्तानां छाद्मस्थिकं सलेश्यं काषायिकं वीर्यं च भवति, अत्र विद
A
品
V
A
SUSAN
T
品
SOFASLA
G
बन्ध तत्त्वे
करणाsष्टकम् ॥
| ॥ १२८ ॥