________________
>卐9-35->'<>卐z
सायरूपकारणस्यैकविधत्त्वेन एकमेव कार्य सम्पद्यत इति वाच्यम् , यतो मनोवाकायाऽन्यतमयोगेन प्रकृतिप्रदेशवन्धौ, कषायेण । च स्थित्यनुभागबन्धाविति यद्यपि वस्तुतत्त्वम् . 'जोगा पयडिपएसं ठिइ अणुभार्ग कसायओ कुणइ' ति वचनात् तथापि तत्तक्षयोपशमवतीनामुदयवतीनाश्च शरीर(योग)कषायप्रभृतिप्रकृतीनां समकालमेवोदयात् क्षयोपशमात् अध्यवसायस्य च तत्तत्प्रकृतिक्षयोपशमोदयनिष्पन्नवाद् विचित्राऽध्यवसायेन विचित्रकार्यनिष्पत्तिरिति निर्बाधम् । यथा चित्रविचित्रमयूरशिशोः निष्पत्तौ चक्षुर्गोचरातीतमपि गर्भवीजस्यैव वैचित्र्यं प्रतीयते तथा समकालमेव प्रकृत्यादिविचित्रबन्धेषु अध्यवसायवैचित्र्यं सुतरां विज्ञायते । न च केवलमेकविधाऽध्यवसायेन प्रकृत्यादिबन्धचतुष्कमपि तु सङ्क्रमोद्वर्त्तनाऽपवर्त्तनोदीरणादीन्यपि तेनैवाध्यवसायेन प्रवर्त्तन्ते, सङ्क्रमादयश्च करणविशेषाः, यदुक्तम् -बंधण संकमणुवट्टणा य अववट्टणा उदीरणया । उवसामणा निहत्ती णिकायणा च त्ति करणाई ॥१॥ अस्याश्चेयं गमनिका-बध्यते जीवप्रदेशैः सहाऽन्योऽन्यानुगतीक्रियतेऽष्टप्रकारं कर्म येन वीर्यविशेषेण
१ अनुभागबन्धो यद्यपि कषायोदवप्रत्ययिकस्तथापि लेश्यासहचरितकषायोदयोऽनुभागवन्धहेतुरिति विज्ञेयम् । यतो भिन्नभिन्नजीवानां स्थितिबन्धस्य साम्येऽपि अनुभागस्य तीन-तीव्रतर-मन्द-मन्दतरापेक्षया तारतम्यं प्रतीयते, अनेनैव च एकस्मिन् स्थितिबन्धाऽध्यवसायस्थानेऽनुभागवन्धाऽध्यवसायस्थानानामसंख्येयलोकाकाशप्रदेशतुल्यत्त्वं युक्तिसङ्गतमिति ।। तथा चोक्तं;-स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेणेति ॥
२ अत्र शरीरशब्देनोपलक्षणाद्वाङ्मनसी अपि स्वीकर्त्तव्य इति ॥ ३ 'वीर्यविशेषेण ' इत्यनेन न केवलं योगवाच्यं वीर्य गृहीतव्यं किन्तु सलेश्यादिविशेषणविशिष्टं विज्ञेयं ।।
>卐r卐7505742539Cg