________________
z
श्रीनवतत्त्व सुमङ्गलाटीकायां॥१२७॥
वन्धतत्त्वे प्रकृत्यादिबन्धः ॥
><3-卐卐卐>
रसाकारेण याऽनुभूयमानाऽवस्था सोऽनुभागबन्धोऽनुभावबन्धो रसबन्धो वा । प्रकृतिस्थितिरसविवक्षानिरपेक्षदलिकसंख्याप्राधान्येनैव कर्मपुद्गलानां यद्हणं स प्रदेशबन्ध इति ॥ इदश्च प्रकृतिस्थितिरसप्रदेशबन्धानां स्वरूपं मोदकदृष्टान्तेन भावनीयम् , यथा वातविनाशिद्रव्योत्पन्नो मोदकः प्रकृत्या वातमुपशमयति, पित्तोपशमकद्रव्यनिर्वृत्तः पित्तम् , कफापहारिद्रव्यसमुद्भूतः कफमित्येवं स्वभावा प्रकृतिः । स्थितिस्तु तस्यैव कस्यचिदिनमेकं, अपरस्य तु दिनद्वयं एवं यावत् कस्यचिन्मासादिकमपि कालं भवति, ततः परं विनाशादिति । रसः पुनः स्निग्धमधुरादिरूपः तस्यैव कस्यचिदेकगुणोऽपरस्य द्विगुणोऽन्यस्य त्रिगुण इत्यादिकः । प्रदेशाश्च कणिकादिरूपास्तस्यैव कस्यचिदेकप्रसूतिप्रमाणाः, अन्यस्य तु प्रसूतिद्वयप्रमाणा यावदपरस्य सेतिकादिप्रमाणाः। एवं कमणोऽपि कस्यचिज्ज्ञानाच्छादनस्वभावा प्रकृतिः, अपरस्य दर्शनावरणरूपा, अन्यस्याऽऽहादादिप्रदानलक्षणा, कस्यचित्सम्यग्दर्शनविघातजननस्वभावेत्यादि । स्थितिश्च तस्यैव कस्यचित्रिंशत्सागरोपमकोटीकोटीरूपा, अपरस्य तु सप्ततिसागरोपमकोटीकोटीलक्षणेत्यादि । रसस्त्वनुभागानुभावशब्दवाच्यस्तस्यैवैकस्थानकद्विस्थानकत्रिस्थानकादिरूपः । प्रदेशा अल्पबहुतरबहुतमादिरूपा इति ॥
नन्वेकाध्यवसायविशेषेण प्रकृत्यादयश्चचारो बन्धा युगपदेव सञ्जायन्त आहोश्चित् प्राक् प्रकृतिबन्धस्ततः स्थितिबन्ध इति क्रमेण सम्पद्यन्ते ? यौगपद्येन बन्ध इति चेत् कथमेकाध्यवसायलक्षणेनैकेन कारणेन कार्यरूपाः प्रकृत्यादयश्चत्वारो बन्धाः? यदि क्रमेणेति द्वितीयो भङ्ग उररीक्रियते तदा प्रकृत्यादिषु प्रत्येकबन्धेषु भिन्न भिन्नाध्यवसायानां कारणवं सम्पनीपोत, न चैवं प्रतिपाद्यते, किमत्र प्रतिविधानम् ? उच्यते; एकाध्यवसायविशेषेण युगपदेव प्रकृत्यादीनां बन्धस्सञ्जायते, न चैकाध्यक
in%D9卐zs0g)
॥१२७॥