SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ >5<-> 5-5 >5<5> A 品 क्षयेण वोपजायमाना क्षायोपशमिका क्षायिका वा वीर्यलब्धिस्समानरूपा सर्वाऽऽत्मप्रदेशेषु ततो यदा यदा प्रतिसमयं कर्मपुद्रलानां ग्रहणमात्मप्रदेशैस्स्यात्तदा तदा एकस्यां प्रतोलिकायां निवसतां समकालमेव विवाहादिकार्यप्रसक्तानां शतानां गृहमेधिनां यथा स्वस्य अनन्तरपरम्परसम्बद्धत्वेनाऽन्येषामपि उपग्राहकत्वं दृश्यते तद्वदनन्तरपरम्परतया निखिलानामात्मप्रदेशानां स्वाऽत्मप्रदेशार्थमन्यात्मप्रदेशार्थं च अल्पाधिकतया व्यापार उपजायत इति । अयं च विषयः कर्म्मप्रकृति-पञ्चसंग्रह-शतकप्रकरणादिषु विस्तरेण प्रपञ्चितस्ततो द्रष्टव्यः ॥ एवञ्च रागद्वेषस्नेहलेशावलीढसकलात्मप्रदेशो जीवो बद्धोदितमिथ्याच्त्वादिभिर्हेतुभिर्येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेवावस्थितान् कार्मणविग्रहयोग्यान् पुद्गलस्कन्धानादाय प्रकृतिस्थितिरसतया तान् यत्परिणमते स प्रकृत्यादिबन्ध इति निष्कर्षः । स च प्रकृत्यादिभेदैश्चतुर्विधः प्रकृतिबन्धः, स्थितिबन्धः, अनुभागबन्धः, प्रदेशबन्धश्च । तत्र स्थित्यनुभागप्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः, “प्रकृतिः समुदायः स्याद्” इतिवचनात् । रक्तद्विष्टेनाऽऽत्मना स्वाऽवगाढाऽऽकाशप्रदेशवर्तिकार्मणस्कन्धा यदा उपादीयन्ते अध्यवसायविशेषाच्चाऽऽत्मसात्क्रियन्ते तदा हंसः क्षीरोदके इव अथवा गौचर्विततृणकवलानां दुग्धसहितसप्तधातुतया परिणमनमिव एकसमयगृहितकार्मणस्कन्धानां मध्ये केचन ज्ञानावरणीयतया केचिद्दर्शनाच्छादकत्वेनाऽपरे सुखदुःखानुभवयोग्यतया परे च दर्शनचरणव्यामोहकारितयाऽन्ये नारकतिर्यङ्मानुष्याऽमराssयुनाऽन्ये गतिशरीराद्याकारेणाऽपरे उच्चनीचगोत्रानुभावेनाऽन्ये दानाद्यन्तरायकारितया यद् व्यवस्थाप्यन्ते स प्रकृतिबन्धः । ज्ञानावरणीयादिप्रकारतया प्रविभक्तानां कर्मस्कन्धानामध्यवसायविशेषादेव जघन्यमध्यमोत्कृष्टस्थितिकालनियमनं स स्थितिबन्धः । नियमितस्थितिकानां स्वस्वपाककाले परिपाकमुपगतानां कर्मस्कन्धानां घृतक्षीरकोशातकीरससदृशशुभाशुभ- भू २२ <5><LA
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy