________________
श्री नवतत्व
सुमङ्गला
टीकायां
॥१२६॥
N
A
अष्टस्पर्शाश्च । एवं वैक्रियाहारकशरीरप्रायोग्या अपि वर्गणा द्रष्टव्याः । तैजसशरीरप्रायोग्या वर्गणाः पञ्चवर्णा द्विगन्धाः ह पञ्चरसाश्चतुःस्पर्शाः, तत्र मृदुलघुरूपौ द्वौ स्पर्शाववस्थितौ, अन्यौ तु द्वौ स्पर्शो स्निग्धोष्णौ स्निग्धशीतौ वा, रूक्षशीतौ वा, एवं V भाषा प्राणापानमनःकर्मप्रायोग्या अपि वर्गणा द्रष्टव्याः । तथौदारिकवर्गणाः प्रदेशार्थतया सर्वस्तोकाः, ताभ्यो वैक्रियशरीरप्रायोग्या वर्गणा अनन्तगुणाः, ताभ्य आहारकशरीरप्रायोग्या वर्गणा अनन्तगुणाः, ताम्योऽपि तैजसशरीरप्रायोग्यवर्गणा अनन्तगुणाः, एवं भाषाप्राणापानमनः कर्मप्रायोग्या अपि वर्गणा यथोत्तरमनन्तगुणा वाच्या इति ।। (श्रीमलयगिरीया कर्म्मप्रकृतिवृत्तिः)।। ननूक्तप्रकारेण चतुर्दशरज्जुपरिमिते लोके कार्मणपुद्गलानां यदा सर्वत्र सद्भावः प्रतिपादितस्तदा कान् कर्मयोग्यपुद्गलान् कुत्र स्थितो जीव उपादत्ते ! आत्मनोऽचिन्त्यशक्तिकत्त्वादिति चेदुच्यते यथा जातवेदाः स्वसम्बद्धानीन्धनान्येव दहति नवसम्बद्धानि तथाऽयमात्माऽपि येष्वाकाशप्रदेशेष्ववगाढस्तत्र वर्त्तमानानेव कर्मयोग्यपुद्गलानादत्ते न त्वनन्तरपरम्परप्रदेशाऽवगाढानिति । ' एगपएसोगाढं नियसव्वपएसओ गहेइ जिओ ' इति वचनात् । अस्या गमनिका ; - एकस्मिन्प्रदेशेऽवगाढमेकप्रदेशावगाढं येष्वाकाशप्रदेशेषु जीवोऽवगाढस्तेष्वेव यत्कर्मपुद्गलद्रव्यं तद्रागादिस्नेहगुणयोगादात्मनि लगति ' ॥ ननु कर्मT ग्रहणं यदा च सञ्जायते तदा लोकाकाशप्रदेशपरिमिताऽऽत्मप्रदेशैर्निखिलैरेव कर्त्तृभूतैः कर्मग्रहणं जायत उत न्यूनैरिति । उच्यतेःशृङ्खलाऽवयवानामिव सर्वात्मप्रदेशानां सम्बद्धच्वादेकस्मिन्नात्मप्रदेशे स्वक्षेत्रावगाढग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रिय- पु माणे सर्वेऽप्यात्मप्रदेशा अनन्तरपरम्परतया तद्रव्यग्रहणाय व्याप्रियन्ते यथा हस्ताग्रेण कस्मिंश्रिद्वा घटादिके गृह्यमाणे मणिबन्धकूर्परांसादयोऽपि तद्ग्रहणीयानन्तरपरम्परतया व्याप्रियन्ते । यतो वीर्यान्तरायस्य देशक्षयेण ( क्षयोपशमेन ) सर्व -
|A
A
५६ ॥ १२६॥
A
ड
|T
V
U बन्धतत्त्वे कर्मबन्धM स्वरूपम् ॥
A
N
G