SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ z 5 > 5 - 5 -> A T A स्थावरा भवन्ति २ । यदुदयाजीवानां चक्षुग्राह्यशरीरत्वलक्षणं बादरत्वं भवति तद्वादरनाम, पृथिव्यादेरेकैकशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बादरत्त्वपरिणामविशेषाद्बहूनां समुदाये चक्षुषा ग्रहणं भवति ३ । तद्विपरीतं सूक्ष्मनाम, यदुदयाद्वहूनां समुदितानामपि जन्तुशरीराणां चक्षुर्ग्राह्यता न भवति ४ । यदुदयात्स्वयोग्यपर्याप्तिनिर्वर्त्तनसमर्थो भवति तत्पर्याप्तनाम ५ । तद्विपरीतमपर्याप्तनाम, यदुदयात्स्वयोग्य पर्याप्तिनिर्वर्त्तनसमर्थो न भवति ६ । यदुदयात्प्रतिजीवं भिन्नशरीरमुपजायते तत्प्रत्येकनाम, ननु कपित्थाश्व - थपीलुप्रभृतिनां मूलस्कंधत्वक्छाखादयः प्रत्येकमसंख्येयजीवाः प्रवचनें प्रोच्यन्ते, मूलादयश्च देवदत्तशरीरखदखण्डैकशरीराकारा उपलभ्यन्त इति कथं तेषां प्रत्येकशरीरत्वं ? प्रतिजीवं शरीरभेदाऽभावात् इतिचेन्मैवं, तन्मूलादिष्वसङ्घथेयानामपि जीवानां भिन्नभिन्नशरीराभ्युपगमात्, केवलं श्लेषद्रव्य मिश्रितसकलसर्पपवर्तिवत्प्रबलरागद्वेषोपचितविचित्रप्रत्येकनामकर्मपुद्गलोदयात्तेषां परस्परविमिश्रशरीरसंभवात् ७| यदुदयादनन्तानां जीवानामेकं शरीरं भवति तत्साधारणनाम ८ । यदुदयाच्छिरोऽस्थिदन्तादीनां शरीरावयवानां स्थिरता भवति तत् स्थिरनाम ९ । तद्विपरीतमस्थिरनाम, यदुदयाजिह्वादीनां शरीरावयवानामस्थिरता १० । यदुदयान्ना भेरुपरितना अवयवाः शुभा जायन्ते तच्छुभनाम, ११ । तद्विपरीतमशुभनाम, यदुदयान्नाभेरधस्तनाः पादादयोऽवयवा अशुभा भवन्ति, तथाहि :- शिरसा स्पृष्टस्तुष्यति मनुष्यः पादेन तु रुष्यति, कामिन्याः पादस्पर्शेन च यस्तोपः स मोहनिबन्धनो न तु वास्तव इति न तेन व्यभिचारः १२ । यदुदयाजीवस्वरः श्रोतृप्रीतिहेतुर्भवति तत्सुस्वरनामा, १३ । तद्विपरीतं दुःस्वरनाम, यदुदयात्स्वरः श्रोतॄणामप्रीतिहेतुर्भवति १४ । यदुदयादनुपकृदपि सर्वस्य मनःप्रियो भवति तत्सुभगनाम १५ । तद्विपरीतं दुर्भगनाम, यदुदयादुपकारकृदपि जनस्य द्वेष्यो भवति १६ । यच्च तीर्थकरोऽप्यभव्यानां द्वेष्यो भवति तत्र न फ्र UM<550A5. N A
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy