SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Zys श्रीनवतत्त्वसुमङ्गलाटीकायां॥१३५॥ 55ye बन्धतवे उत्तरप्रकृतिमेदाः॥ > <9- तीर्थकरगतदुर्भगत्त्वं निमित्तं, किंतु तद्गतमिथ्यात्वदोष एवेत्यवधेयं । यदुदयाल्लोको यत्तदपि वचनं प्रमाणीकरोति दर्शनसमनन्तरमेव चाभ्युत्थानाधाचरति तदादेयनाम १७ । तद्विपरीतमनादेयनाम, यदुदयादुपपन्नमपि बुवाणो नोपादेयवचनो भवति, नाप्यभ्युत्थानादियोग्य: १८ । तपःशौर्यत्यागादिना समुपार्जितेन यशसा कीर्तनं यश कीर्तिः, यद्वा यशः सामान्येन ख्यातिः, कीर्तिगुणोत्कीर्तनरूपा प्रशंसा, अथवा 'एकदिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः। दानपुण्यभवा कीर्तिः पराक्रमकृतं यशः ॥१॥' ते यश-कीर्ती यदुदयाद्भवतस्तद्यश-कीर्तिनाम १९| तद्विपरीतमयश-कीर्तिनामयदुदया न्मध्यस्थस्यापि जनस्याप्रशस्यो भवति २० । उक्ताः सप्रतिपक्षाः प्रत्येकप्रकृतयः। अत्र त्रसादयो दश प्रकृतयस्त्रसादिदशकं, स्थावरादयश्च दश स्थावरादिदशकमिति संज्ञा ग्राह्या । गोत्रस्य द्वे उत्तरप्रकृती-उच्चैर्गोत्रं, नीचैर्गोत्रं च । यदुदयादुत्तमजातिकुलबलतपोरूपैश्वर्यश्रुतसत्काराभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिसम्भवस्तदुच्चैर्गोत्रम् । यदुदयात् पुनर्ज्ञानादिसंपन्नोऽपि निन्दा लभते हीनजात्यादिसंभवां तन्नीचैर्गोत्रम् । अन्तरायस्य दानलाभभोगोपभोगवीर्यान्तरायभेदात् पश्चोत्तरप्रकृतयः, तत्र यदुदयात् सति विभवे समागते च गुणवति पात्रे दत्तमस्मै महाफलमिति जानन्नपि दातुं नोत्सहते तद्दानान्तरायं । यदुदयादातुहे विद्यमानमपि देयं गुणवानपि याचमानोऽपि न लभते तल्लाभान्तरायं । यदुदयाद्विशिष्टाहारादिप्राप्तावप्यसति च प्रत्याख्यानादिपरिणामे कार्पण्यान्नोत्सहते भोक्तुं तद्भोगान्तरायं । एवमुपभोगान्तरायमपि भावनीयं, नवरं भोगोपभोगयोरयं विशेषः-सकृद्भुज्यत इति भोगः, पुनःपुनरुपभुज्यत इत्युपभोगः। यदुदयात्सत्यपि नीरुजि शरीरे यौवनेऽपि वर्तमानोऽल्पप्राणो भवति तद्वीर्यान्तरायं । इत्येवं मूलोत्तरभेदतः '-g> ॥१३५॥ <s
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy