________________
७)
25s>卐
प्रकृतिवन्धो व्याख्यातः।
ननु प्रथमं ज्ञानावरणं द्वितीयं दर्शनावरणं यावदष्टममन्तरायमितिक्रमस्सहेतुक उत निर्हेतुक ? उच्यते यद्यपि बन्धकालचिन्तामाश्रित्य तु प्रागुक्तरीत्या समकमेव सप्तानामष्टानां वा कर्मणां बन्धः नतु प्राग् ज्ञानावरणं ततो दर्शनावरणमन्तिममन्तरायश्चेति, तथापि सिद्धान्तसिद्धक्रमसाधनायेयं परिपाटी सहेतुका विधीयते । तत्र ज्ञानदर्शने जीवस्य स्वतत्वभृते, तयोरभावे जीवत्वस्यैवायोगात् , तयोर्ज्ञानदर्शनयोरपि च मध्ये ज्ञानं प्रधानं, ज्ञानोपयोगयुक्तस्यैव लब्धिप्राप्तेर्मोक्षावानेश्च, सकलशास्त्रादिविचारप्रवृत्तिरपि ज्ञानाधीना एव ततो ज्ञानं प्रधानं तदावारकं च ज्ञानावरणं कर्म यतस्तत्प्रथममुक्तं, तदनन्तरं च दर्शनावरणं, ज्ञानोपयोगाच्युतस्य दर्शनोपयोगेऽवस्थानात्, एते च ज्ञानदर्शनावरणे स्खविपाकमुपदर्शयन्ती यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते भवतः, तथाहि;-ज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् सूक्ष्मसूक्ष्मतरवस्तुविचाराऽसमर्थमात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमात् पाटवोपेतश्च सूक्ष्मतराणि वस्तूनि निजप्रज्ञयाभिजानानः बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते । तथातिनिबिडदर्शनावरणोदये जात्यन्धादिरनुभवति दुःखसन्दोहं वचनगोचरातिक्रान्तम् । दर्शनावरणक्षयोपशमसौष्ठवपरिकलितश्च स्पष्टचक्षुराद्युपेतो यथावद्वस्तुनिकुरम्बं सम्यगवलोकमानो वेदयतेऽमन्दमानन्दसन्दोहं, तत एतदर्थप्रतिपत्त्यर्थ दर्शनावरणानन्तरं वेदनीयग्रहणम् । वेदनीयं च सुखदुखे जनयति, सुखदुःखाबाप्तौ चावश्यं संसारिणां रागद्वेषौ तौ च मोहनीयहेतुकाविति वेदनीयानन्तरं मोहनीयम्। मोहनीयमूढाश्च जन्तवो बहारम्भपरिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति ततो मोहनीयानन्तरमायुग्रहणम् । नरकाद्यायुष्कोदये चावश्य
卐yz卐)
-
->)
-कर